Book Title: Nandanvan Kalpataru 2011 06 SrNo 26 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 8
________________ पत्रमेकम् शासनसम्राजां परमगुरुभगवतां श्रीविजयनेमिसूरीश्वराणां शिष्येष्वन्यतमा आसन् आचार्यवर्याः श्रीविजयलावण्यसूरीश्वराः । ते हि तर्क-व्याकरण-साहित्यादीनां पारगामिणो बहून् ग्रन्थान् बहूंश्च टीकाग्रन्थान् विरचितवन्तः । किं बहुना ? कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितः सिद्धहेमव्याकरणस्य बहन्न्यासोऽद्यत्वेऽत्यल्पप्रमाणः प्राप्यते, तस्य च विशालस्त्रुटितो भाग एतैः श्रीविजयलावण्यसूरीश्वरैः स्वप्रज्ञया पूरितः। ते हि यदा मुन्यवस्थायामासन् तदा राजस्थानस्य सोजतनगरात् प्रायो वैक्रमे १९८४ तमे संवति तैलिखितमिदं पत्रं स्वगुरुभगवद्भयः शासनसम्राड्भ्यः । अत्र पत्रे तेषां छन्दोऽलङ्कारादीनां विशदं ज्ञानं काव्यविरचनसामर्थ्यं च विलोक्यते ।Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 153