Book Title: Kavyanushasanam Author(s): Prashamrativijay Publisher: Pravachan Prakashan Puna View full book textPage 9
________________ प्रथमोऽध्यायः भूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु नानाविधानि । युष्माकं तानि सप्तत्रिदशमुनिनुतान्यष्टदिग्भाञ्जि भानो यान्ति प्रारू नवत्वं दश ददतु शिवं दीधितीनां शतानि ॥' दशेत्यपरे'दशरश्मिशतोपमद्युति यशसा दिक्षु दशस्वपि श्रुतम् । दशपूर्वरथं समाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ॥' अत्र हि देशपर्वतसरिद्दिशां यः क्रमस्तं तथैव बध्नीयात् । नान्यथा । तत्र प्राच्यानां श्यामो वर्णः प्रायेण । यथा 'गण्डभित्तिषु गौडीनां तमालदलकान्तिषु ।। विभ्राजन्ते स्म काप॒र्यः पत्रवल्ल्यो विशेषतः ॥" दाक्षिणात्यानां कृष्णः । यथा'इदं भासां भर्तुर्दुतकनकगोलः प्रतिकृति क्रमान्मन्दज्योतिर्गलति नभसो बिम्बवलयम् । अथैष प्राचीनः सरति मुरलीगल्लमलिनस्तरुच्छायाचनः स्तबकित इव ध्वान्तविसरः ॥' पाश्चात्यानां पाण्डुवर्णः । यथा'शाखास्मेरं मधुकवलनाकेलिलोलेक्षणानां भृङ्गस्त्रीणां बकुलमुकुलं कुन्तलीभावमेति । किं चेदानी यवनतरुणीपाण्डुगण्डस्थलीभ्यः कान्तिः स्तोकं रचयति पदं नागवल्लीदलेषु ॥' उदीच्यां गौरः । यथा'कृत्वा नूपुरमूकतां चरणयोः संयम्य नीवीमणी नुहामध्वनिपण्डितान्परिजने किञ्चिच्च निद्रायति गौरी क्रुध्यतु यावदस्ति चलिता तावद्विधिप्रेरितः । काश्मीरीकुचकुम्भविभ्रमधरः शीतांशुरभ्युद्गतः ॥' काव्यानुशासनम् मध्यदेशानां कृष्णः श्यामो गौरो वेति लोकस्वरूपमुक्तम् । अथातः शास्त्रनैपुण्यमुदाहियते । तत्र लक्षणे नैपुणं यथा'कण्ठलग्नाः सदा स्त्रीणां खेलन्ति इह खङ्गीकाः । विरामे न प्रवर्तन्ते कदाचित् सन्धयो यथा ॥' तर्क: षट्प्रकार:'जिनं सांख्यं शिवं भाट्ट बौद्धं लौकायतं तथा । षडेता दृष्टयः प्रोक्ताः शेषाः पाखण्डवृत्तयः ॥' जैनं यथा'नयास्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥' सांख्यीयो यथा'उदासितारं निगृहीतमानसैर्गृहीतमध्यात्मदृशा कथञ्चन । बहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः ॥' शैवो यथा'किमीहः किं कायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च । अतक्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥' भट्टानां यथा'वै-स्वर्गकामः क्रमतः क्रतूनां तदग्निहोत्रं जुहुयाद्विजन्मा । इत्यादि वेदान्तविदो यदाहुस्त्वयि प्रसन्ने खलु तत्तु सत्यम् ॥' बौद्धीयो यथा'नात्मा कश्चिदिहास्तीह प्रत्यक्षानुपलब्धितः । विज्ञानमात्रमेवैतज्जगत् क्षणविनश्वरम् ॥'Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92