Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 41
________________ तृतीयोऽध्यायः अलङ्काराः खलु द्विविधाः । शब्दालङ्कारा अर्थालङ्काराश्च ॥१॥ तत्र तावदर्थमधिकृत्य शब्दः प्रवर्ततेऽतः प्रथममर्थालङ्कारा एवोदाहियन्ते । तद्यथा जात्युपमोत्प्रेक्षा-रूपक-दीपकान्योक्ति-समासोक्त्यप्रस्तुतप्रशंसा-पर्यायोक्त्यतिशयोक्ति-सहोक्त्याक्षेप-विरोधार्थान्तरन्यास-व्याजस्तुति-व्यतिरेक-ससन्देहापहृति-परिवृत्त्यनुमान-स्मृति-भ्रान्ति-विषम-सम-समुच्चयान्यापर-परिसंख्याकारणमाला-निदर्शनैकावली-यथासंख्य-परिकरोदात्त-समाहित-विभावनान्योन्य-मीलित-विशेष-पूर्व-हेतु-सार-सूक्ष्मलेश-प्रतीप-पिहित-व्याघाताऽसङ्गतिरहेतु-श्लेष-मतोत्तरोभयन्यास-भाव-पर्याय-व्याजोक्त्यधिक-प्रत्यनीकानन्वयतद्गुणातद्गुण-सङ्करा आशी:प्रभृतयोऽर्थालङ्काराः ॥२॥ तद्यथा(तत्र) यथास्थितवस्तुस्वरूपवर्णनमग्राम्यं जातिः । सा च त्रस्तार्भकदीनतिर्यग्युवतिप्रभृतिषु विशेषतो रम्या ॥३॥ काव्यानुशासनम् तत्र त्रस्तस्वरूपं यथा'ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । दभैरर्धावलीडैः श्रमविततमुखभ्रंशिभिः कीर्णवा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्त्यां प्रयाति ॥' अर्भकस्वरूपं यथा'उदयशिखरिश्रृङ्गप्राङ्गणेष्वेव रिड न्सकमलमुखहासं वीक्षितः पद्मिनीभिः । प्रसृतमृदुकराग्रः शब्दयन्त्या वयोभिः परिपतति दिवोऽङ्के हेलया बालसूर्यः ॥' दीनस्वरूपं यथा'बविलीबहलकान्तिरुचो विचित्रभूर्जत्वचा रचितचारुदुकूललीलाः । गुञ्जाफलग्रथितहारलताः सहेलं खेलन्ति खेलगतयोऽत्र वने शबर्यः ॥' तिर्यक्स्वरूपं यथा'मेदस्विनः सरभसापगतानभीकान् भक्त्वा पराननडुहो मुहुराहवेण । ऊर्जस्वलेन सुरभीमनुनिःसपत्नं जग्मे जयोद्धरविशालविषाणमुक्ष्णा ॥' योषित्स्वरूपं यथा'उत्तालतालविचलद्वलयावलीकं सद्यः सखीजनविनिर्मितमण्डलीकम् । गायन्ति रासकविधाविह मेदपाटनार्योऽधुनापि तव नेमिकुमार कीर्तिम् ॥'

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92