Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 86
________________ पञ्चमोऽध्यायः १६१ शोकबकुलगुवाकविचकिलनालिकेर-हिन्ताल-पाटलीकिंशुक-खजूर-ताडताडी-प्रभृतिद्रुमाणामुद्भेदः । तत्र प्रत्युद्यानमान्दोलकक्रीडा पुष्पावचयो मधुपान स्मरपूजाप्रकमो गौरीचरितगानं चम्पकपुष्पाभरणानि प्रत्यमरमन्दिरं यात्रोत्सवो (व्यात्यु)चारुचन्दनाङ्गरागो धौतधवलवसनसेवनं जगज्जनजिगीषुमकरध्वजमहाराज-विजययात्रा-डिण्डिमायमान-कोकिलकुल-कलकलकलोद्यानरामणीयकं वर्णनीयम् । वायुश्चात्र करिकलभदशनोद्भिद्यमान-चन्दनद्रुमामोदमेदुरस्तरलित-केरली-धम्मिल्लबन्धो नागवल्लीवेल्लनपटुर्मानिनी मानतुङ्गमतङ्गजः पञ्चमप्रपञ्चविपञ्चनाचतुरो दाक्षिणात्यः ।। ज्येष्ठाषाढौ ग्रीष्मः । अत्र हि नवमालिका-काशिका-शिरीष-काञ्चन केतकी-धातकी-खजूर-जम्बु-पनस-प्रियाल-पूगीफल-नारिकेलप्रभृतीनां पुष्पफलोद्भेदः । करभ-सरभ-रासभ-प्रभृतीनां मदोद्भेदः । नदीसर:कूपादिषु निरम्भस्त्वम् । सक्तुधानैर्वारुषु पानकेषु रतिः । पान्थपूर्णाः प्रपाः । प्रातः सायं च वहमानमार्गत्वम् । कायमानेषु माध्याह्निकी निद्रा । दिवसावसाने स्नानविधिः । रात्रिशेषे सुरतक्रीडा । चन्दनादिशीतलद्रव्यसेवा । निशासु चन्द्रकरनिषेवणम् । उत्तुङ्गसौधशृङ्गाग्रविनिर्मिते विशालवातायनविवरविहरमाणजगत्प्राणनिर्वाप्यमाणघर्मत्वम् । सहकारभङ्गास्वादः । तालवृन्दजनितोदबिन्दु-वृष्टिसर:स्थलस्थायिस्थूलमुक्ताफल-हारप्रायाभरणत्वम् । जलायॊपवन-जलक्रीडा-पाटलापरिमल-बहलितशीतलजलोपभोगो विविधविचकिलस्त्रज एकदेशोपविष्टवैणिकविपञ्च्यमानवसन्त ध्वनिश्रवणं सशर्कराघृतदुग्धपानं मलयजरसदिग्धोद्धरपयोधरमधुर-वधूविविधविधायमाननिधुवनविधिविधीयमान-धूतघनधर्मत्वं वर्णनीयम् । तथा पच्यन्त इव भूतानि, कम्पन्त इव तोयानि, तप्यन्त इव पांसवः, आध्मायन्त इव पर्वताः, सेवन्तो मृगदृष्टिकाकीर्णा वनभूमिः, सर्वतोवहदरघट्टघटीयन्त्र-चीत्कारमुखरीक्रियमाणमध्यान्युद्यानानि, करवीरकरपुष्पिणी स्थलभूमिः चीरीनादवन्तो वनान्ताः । दाधिकाभ्यवहारः । पङ्कान्तनुंठनाव्यग्रं कोलकुलम् । रोमन्थ-मन्थरमुखमहिषीमण्डलमथ्यमानपानीयस्थानम् । लोलज्जिह्वाः समग्रश्वापद-सन्दोहाः । पक्षिणामंसदेशप्रकर्षों वर्णनीयः । वायुश्चात्र तरुणतरतरणिकिरणसंपर्ककर्कशः १६२ काव्यानुशासनम् शर्कराकणवाही अङ्गारप्रकरं किरन्निव कुतूहलकणान् वर्षन्ति वातिसारितजगज्जन्तुजातदाहडम्बरो नैऋतोऽनियतादिक्षिपो वा (?) वर्णनीयः । वसुरवस्थश्च ॥ ऋतोः सन्धिः ॥१०॥ शैशवं प्रौढिरनुवृत्तिश्च ॥११॥ तत्र शिशिरवसन्तयोः सन्धिर्यथा'बिंबढे मयणं नदिति वहलो नो गन्धतिल्लायरा वेणीयो विरयं तिलिंति न तहा अंगंमि कुप्पासयं । जंबाला मुहु कुंकुमं मिवयणे विटुंति डिल्लायरा संमत्ते शिशिरं विणिज्जिय बला पत्तो वसंतस्स उ ॥' वसन्तस्य शैशवं तथा'गर्भग्रन्थिषु वीरुधां सुमनसो मध्येङ्करं पल्लवाश्छायामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः । किं च त्रीणि जगन्ति जिष्णुदिवसैद्विवैमनोजन्मनो देवस्यापि चिरेप्सितं यदि भवेदभ्यासवश्यं धनुः ॥' प्रौढिर्यथा'संपिण्डीकृतजीर्णजीरककणाश्रेणिश्रियः केशरान् सन्नद्धं परितो निरन्तरदलद्रोणीनिवेशस्त्रिभिः । प्रीतभ्रान्तमधुव्रती चलपितस्तं च स्तिभीसङ्कटे गन्धग्राह्यमबाह्यवृत्ति वलति क्रीडावने केतकम् ॥' वर्षासु ग्रीष्मलिङ्गानुवृत्तिर्यथा'खं वस्ते कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलं चर्चा पारयतीव द१रकुलं कोलाहलैरुन्मदम् । गन्धं मुञ्चति सिक्तलाजसदृशं वर्षेण दग्धा स्थली दुर्लक्ष्योऽपि विभाव्यते कमलिनीहासेन भासां पतिः ॥'

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92