Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
पञ्चमोऽध्यायः
यथा
'निशा वा वृष्टिर्वा तिमिरमथ वा गर्जिरथ वा तडिद्वा पङ्को वाभिनवसरितां श्रेणिरथ वा । यथेष्टं चेष्टन्तां यदि न दयितः प्रेमविमुखः प्रदीपः स्नेहाढ्यो न खलु शलभौघैर्विरमति ॥' अन्यत्र भर्तरि त्रिरात्रमुषिते खण्डिता ॥ ६५ ॥
यदाह
'निद्राकषायमुकुलीकृतताम्रनेत्रो नारीनखव्रणविशेषविचित्रिताङ्गः । यस्याः कुतोऽपि गृहमेति पतिः प्रभाते
सा खण्डितेति कथिता कविभिः पुराणैः ॥'
यथा
'नवनखपदमङ्गं गोपयस्यंशुकेन
स्थगयसि मुहुरोष्ठं पाणिना दन्तदष्टम् । प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नवपरिमलगन्धः केन शक्यो वरीतुम् ॥'
ईर्ष्यायाः प्रति कारणं सपत्नी नायिका ॥६६॥
१५७
यथा रुक्मिण्या सत्यभामा, वासवदत्तायाः सागरिका, गौर्या गङ्गा च । योषिद्गुणानां च लीलादीनां ग्रन्थगौरवभयान्नात्र विस्तरः ॥
अथ दश कामावस्था आह
अभिलाष - चिन्ता - स्मृति-गुणकीर्तनोद्वेग-प्रलापोन्मादव्याधि- जडतामरणाख्या दशावस्थाः । स्त्रीपुंसयोः परस्परमालोकनालापादिना अनुक्रमेण भवन्ति ॥ ६७ ॥
अथ कालाद्यौचित्यमाह
काव्यानुशासनम्
तत्राऽनाद्यन्तः सुषमदुः षमादिद्वादशारचक्रपरिवर्तनेन कालो
मन्तव्यः ॥ ६८ ॥
१५८
स च काष्ठादिभेदभिन्नः ॥६९॥
तद्यथा - पञ्चदश निमेषाः काष्ठा ॥७०॥
त्रिंशत् काष्ठाः कला ॥ ७१ ॥ पञ्चदश कलाः घटिका ॥७२॥
द्विघटिको मुहूर्तः ॥ ७३ ॥ त्रिंशन्मुहूर्तोऽहोरात्रः ॥७४॥
तत्र चैत्राश्वयुजोर्मेषतुलासंक्रान्तौ समरात्रिन्दिवम् ॥७५॥ चैत्रात् परं मौहूर्तिकी दिनवृद्धिर्निशाहानिश्च ॥७६॥
मासः परावधिः ॥७७॥
ततः परं मौहूर्तिकीर्दिवसहानिर्निशावृद्धिः ॥७९॥
अश्वयुजः परतः पुनस्तदेव विपरीतम् । पञ्चदशाहोरात्र: पक्षः ॥८०॥
कृष्णशुक्लपक्षद्वयरूपो मासः ॥८२॥ द्वाभ्यां द्वाभ्यां मासाभ्यामृतुः ॥८३॥ षड्भिर्मासैरयनम् ॥८४॥ तच्च वर्षादि दक्षिणायनम् ॥८५॥ शिशिराद्यं तूत्तरायणम् ॥८६॥
१. बहुवचनान्तमिदम् तेन मासत्रयमित्यर्थः ।

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92