Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 82
________________ १५३ १५४ काव्यानुशासनम् पञ्चमोऽध्यायः क्रीडनकप्रायो विदूषकः ॥४८॥ नायिका त्रिधा-स्वकीया परकीया सामान्या च ॥४९॥ तत्र देवगुरुसमक्षमूढा आर्जवमार्दवसत्यशौचाद्युपेतौत्सुक्या मुग्धा-मध्या-प्रौढाभेदेन त्रिधा स्वकीया ॥५०॥ तत्र मुग्धा यथा'अपहरति यदास्यं चुम्बनं श्लिष्यमाणावलति च शयनीये कम्पते च प्रकामम् । वदति च यदलक्ष्यं किंचिदुक्तापि भूयो रमयति सुतरां सा चित्तमन्तनवोढा ॥' उद्भिद्यमाननवयौवना मध्या ॥५१॥ यथा'तरन्तीवाङ्गानि स्खलदमललावण्यजलधौ प्रथिम्नः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च । दृशोर्लीलारम्भाः स्फुटमपवदन्ते सरलतामहो सारङ्गाक्ष्यास्तरुणिमनि गाढं परिचयः ॥' वयःकलाकौशल्यपरिपूर्णा प्रौढा ॥५२॥ यथा'नितम्बो मन्दत्वं जनयति गुरुत्वाद् द्रुतगतौ महत्त्वादुद्वृत्तः स्तनकलशभारः श्रमयति । विकाशिन्या कान्त्या प्रकटयति रूपं मुखशशी ममाङ्गानीमानि प्रसभमभिसारे हि रिपवः ॥' एताश्च धीराधीरादिभेदेनानेकधा भवन्ति । परमत्र ग्रन्थगौरवभयान्नोच्यन्ते (यथा) ॥ परकीया परस्त्री कन्या च ॥५३॥ परस्त्री यथा'दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसा: कौपीरप: पास्यति । एकाकिन्यपि यामि तद्वरमितः स्त्रोतस्तमालाकुलं नीरन्ध्राः 'पुनरालिखन्तु जरठच्छेदा नलग्रन्थयः ॥' कन्या यथा'दृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यमभ्यस्यति पूर्वाकारमुरस्तथापि कुचयोः शोभा नवामीहते । नो धत्ते गुरुतां तथाप्युपचिता....नितम्बस्थलं तन्व्याः स्वीकृतमन्मथं विजयते नेकपेयं वयः ॥' कलाकलापकुशला वैशिकाचारचतुरा धूर्ता वित्तैकबद्धचित्ता सगुणनिर्गुणयोः साधारणी गणिका सामान्या ॥५४॥ यथा'गाढालिङ्गनपीडितस्तनतट स्विद्यत्कपोलस्थलं संदष्टाधरमुत्कलीकृतलसद्धान्तोरुगलस्थलम् । चाटुप्रायवचो विचित्रमणितं घातै रुतैश्चाङ्कितं वेश्यानां धृतिधाम पुष्पधनुषः प्राप्नोति धन्यो रतम् ॥' एतस्याश्च लिङ्गिनः प्रच्छन्नकामुकाः पण्डकाः सुखप्राप्तवित्ता मूर्खाः पितृवित्तगर्विताश्चाभिगम्याः ॥५५॥ सर्वासामपि योषितां प्रव्रजिता धात्रेयिका हीनस्त्री दासी च दूत्यो भवन्ति ॥५६॥ १. 'सत्वर' इति । २. 'तनुमा' इति साहित्यदर्पणे ।

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92