Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 87
________________ १६४ पञ्चमोऽध्यायः इदमन्यच्च यद्यथोक्तं कविसमयप्रसिद्धं तत्तथैव निबध्नीयात् । अन्यथा तु प्रकृतिव्यत्ययो नाम दोषः ॥ विभावानुभावयोः क्लेशेन यत्र व्यक्तिर्भवति सा विभावानुभावक्लेशव्यक्तिः ॥१२॥ यथा'परिहरति रति मतिं लुनीते स्खलतितरां परिवर्तते च भूयः ।। इति बत विषमा दशास्य देहं परिभवान्ते प्रसभं किमत्र कुर्मः ॥' अत्र रतिपरिहारादीनामनुभावादीनां करुणादावपि संभवात् कामिनीरूपो विभावो यत्नप्रतिपाद्यः । यथा च 'कर्पूरधूलिधवलद्युतिदूरधौत दिङ्मण्डले शिशिररोचिषि तस्य यूनः । लीलाशिरोंऽशुकनिवेशविशेषक्तृप्ति य॑क्तस्तनोन्नतिरभून्नयनावनौ सा ॥' अत्रोद्दीपनालम्बनरूपाः श्रृङ्गारयोग्याभिभवा अनुभावा पर्यवसायिनः स्थिता इति कष्टकल्पना ॥ अतिप्रसङ्गेन व्यावर्णनं पुनः पुनर्दीप्तिः ॥१३॥ यथा बालरामायणे उन्मत्तदशाननेऽङ्के(?) पुनः पुनश्चय॑माणो विप्रलम्भो रस उपभुक्तमाल्यवच्च वैरस्यमाकलयति ।। अकाण्डे विस्तरोऽकाण्डप्रथनम् ॥१४॥ यथा कर्पूरमञ्जर्यां द्रुमदोहददानादिव्यावर्णनम् ।। असमयत्यागोऽकाण्डच्छेदः ॥१५॥ यथा वीरचरिते द्वितीयाङ्के राघवभार्गवयोः परमकाष्ठाधिरूढे वीररसे कङ्कणमोचनाय गच्छामीति रसान्तरेण रसच्छेदः ।। काव्यानुशासनम् अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनमङ्गातिविस्तरः ॥१६॥ यथा कादम्बर्या रूपविलासेत्यादिना महाविप्रलम्भबीजेऽप्युपक्षिप्ते तदनुपयोगिनीषु अटवीशबरेशाश्रममुनिनगरीनृपादिवर्णनास्वेतिम(?)प्रसङ्गाभिनिवेशाः । यथा च शिशुपालवधे उत्क्षिप्तप्रतिद्वन्द्विविजयबीजेन वीररसानुबन्धेऽपि प्रवर्तमाने, तदन्यश्रृङ्गाराङ्गभूतर्तुवनविहार-पुष्पावचय-जलकेलिमधुपान-सुरतचन्द्रोदयादि-प्रभातादिवर्णनायासेऽत्यन्तासक्तिः ॥ प्रधानस्याङ्गिनोऽनुबन्धेऽङ्ग्यननुसन्धानम् ॥१७॥ यथा रत्नावल्यां चतुर्थेऽङ्के बाभ्रव्यागमनेन सागरिकाया विस्मृतिः ।। अनङ्गस्य रसानुपकारकस्य वर्णनमनङ्गाभिधानम् ॥९८॥ यथा कर्पूरमञ्जर्या नायिकया स्वामिना च वसन्तवर्णनमादृत्य बन्दिवर्णने तस्य राज्ञः प्रशंसनम् ॥ इति महाकविश्रीवाग्भटविरचितायामलङ्कारतिलकाभिधानो(?)लङ्कारः ।। नव्यानेकमहाप्रबन्धरचनाचातुर्यविस्फूर्जितस्फारोदारयश:प्रचारसततव्याकीर्णविश्वत्रयः । श्रीमन्नेमिकुमारसूनुरखिलप्रज्ञालुचूडामणिः काव्यानामनुशासनं वरमिदं चक्रे कविर्वाग्भटः ॥

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92