Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 85
________________ पञ्चमोऽध्यायः द्वययनः संवत्सरः ॥८७॥ स च चैत्रादिरिति दैवज्ञाः ॥८८॥ श्रावणादिरिति लोकयात्राविदः ॥८९॥ १५९ तत्र श्रावण भाद्रपदश्च वर्षाः । अत्र च शल्लकी- शील-शिलिन्ध्रयूथी - लाङ्गली - कुटज -दम्बसर्जार्जुन - केतकीप्रभृतीनां पुष्पोद्गमः । इन्द्रगोपचकोर-चातक-कुरङ्ग-दर्दुरोरग- शिखण्डि-मद्गु-कङ्कप्रभृतीनां मदः । तथा बलाकासु गर्भादानम् । वंशाङ्कुराणामवृद्धिः । रजः प्रशमः । नृपयात्रानिवृत्तिः । नीलीदलश्यामला वनभूमिः । वारासारक्षालनतो गिरीणां रम्यत्वम् । नदीनां जलपूरै रोधोभेदः । यतिचारनिवृत्तिः । कामिनीजनावलोकितकान्तमार्गत्वं स्वस्थानं प्रति चलितपान्थसार्थत्वम् । जलदनिकुरुम्बान्धकारितनभस्तलत्वम् । विद्युदुद्योताद्योतमानदिङ्मुखत्वम् । घनगर्जिताद्वैडूर्यभूमिषु रत्नकन्दलोद्भेदः । कामिनीभिः सहोद्यानयात्रा हर्म्यशिखराग्रशय्या । मृगनाभिगर्भचतुःसमविलेपनम् । कृषीवलकुटुम्बिनीनिकुरम्बरासकाडम्बरो दूर्वाष्टमी पर्वोत्सवश्च वर्णनीयः । तथा दग्धोर्वरागन्धबन्धुर्घनतुषारकणवाही कदम्बकुसुमामोदमांसलः पाश्चात्यपौरस्त्य उत्तरो वायुः । आश्विनश्च कार्तिकश्च शरत् । अत्र च कुरर-द्विरेफ-कारण्डव- कादम्बकखञ्जरीट-चक्रवाक-सारस क्रौञ्च-वृषभ-कुम्भि-कमठ-बकोट-शफरप्रभृतीनां मदोद्भेदः । पद्म-कुमुदोत्पल-कार- बन्धूक- बाणासन-कुङ्कुम-शेफालिकासप्तच्छद-काशभाण्डीर-सौगन्धिकमालतीनां कुसुमोद्भेदः । तथा मयूराणां मदापनोदः हंसयूथागमनम् । अगस्त्योदयात्ययः । प्रसादः । मुक्ताशुक्तिगर्भाधानम् । तरुशृङ्गत्यागो नभः प्रसत्तिः । सुरवीथीदर्शनम् । शुभ्राभ्रखण्डमण्डितमस्व (नभश्च) रमण्डलं धवलतमचन्द्रिकावभासमाननिशामुखत्वम् । महानवम्यां निखिलास्त्रपूजोत्सवः । वाजिभटद्वीपानां नीराजनविधिः । नृपाणां यात्रोद्यमः । मार्गेषु पङ्कशोषः । भास्करकराणां दुःसहत्वम् । माधवप्रबोधः । केदारेषु शालिपाको गोपीगीतयश्च । परिपाकापन्नैर्वारुकगन्धोद्गमः । जरत्त्रपुसीफलसौन्दर्यं कृषीवलगेहाजिरेषु चलद्वलयावलीवाचालभुजलतोल्लासित काव्यानुशासनम् मुशलोच्छलितकलमशालिणि(नि)ण (?) कगन्धबन्धुरत्वं नदीपूरप्राचुर्यापगमश्च वर्णनीयः । वायुश्चात्रानियतदिक्कः । मार्गशीर्ष पौषश्च हेमन्तः । अत्र च कुन्द मचकुन्द - लवली - फलिनीरोध्र- पुन्नागानां पुष्पोद्गमः । भ्रमर- सर्प - मयूरादिजीवानां मदापनोदः । कामिनीनां कुङ्कुम-सित्थुक - गन्धतैलाद्युपचारः । सर्षपकन्दलवराहवन्ध्रप्रभृतिशाकप्राचुर्यम् । दघ्नां संनद्धरसता । कामिनीकुचानां कवोष्णता । कोष्णाम्भसा स्नानविधिः । दुर्भगाणामपि गाढतराङ्गपरिष्वङ्गः । व्याघ्रीणां प्रसूतिः । नदीपुलिनेषु गोधूमयवादिधान्योद्गमः । सरः कूपपयसां कवोष्णता । धान्यपरिपाकपेशला बहिर्भूमयः । लवणानां पाकः । पत्त्रीप्रभृतिजन्तुयात्रोद्यमहानिर्वैश्वानरप्रियत्वम् । कर्कन्धूनागरङ्गफलानां पाकोद्रेकः । पुण्ड्रैक्षुखण्डानां रसपरिपूति ( ? ) मन्दिरगर्भशय्या । उत्तुङ्ग-तर- पीवरपयोधरबन्धुरमधुरसुन्दरी - भुजपञ्जरान्तरसेवनं च वर्णनीयम् । वायुश्चात्रोदीच्यः पाश्चात्यो वा वर्णनीयः । १६० माघः फाल्गुनश्च शिशिरः । अत्र सर्वं हेमन्तवद्वर्णनीयम् । विशेषतश्च मातङ्गहरिण-वराह-महिषाणामुत्कर्षः कुङ्कुम- गन्धतैलादिसाध्यः प्रचण्डो मरुत् । विचित्र-सुरतोपभोगयोग्याश्च यामिन्यः । दन्दह्यमान - कालागरुधूपधूमस्तोमेषु स्पृहा । सुरतसम्मर्द-निपीतशीतानां पादप्रान्तपुञ्जीकृततलपटानां यूनां शयनावस्थानम् । चन्दनेष्वरुचिः पयसामतिशायि शैत्यम् । तुहिनानलयोर्दाहात्मकत्वेनाभेदः । दुर्भगासुभगयोरालिङ्गनेन विशेषः । शशिभास्करयोः शैत्येन समता । मरुबक-कुन्देष्वेव पुष्पस्थितिः सिद्धार्थयष्टिसूचीनां परिपाकपेशलत्वम् । औदीच्यपवमान - स्त्यानी भूतपानीयपटलान्तरनिलीनदीनमीनासु नालावशेषनलिनीवनो दीनमधुकरझङ्कारसंकारमुखरितदिङ्मण्डलासु वापीष्वनादरः । करीषाग्निसमीपशयितदयितकुटुम्बकत्वं च वर्णनीयम् । चैत्र वैशाख वसन्तः । अत्र च शुक-सारिका हरीत- मधुव्रत- दात्यूहपुंस्कोकिलादीनां मदः । सहकार - कर्णिकार - काञ्चनार- कोविदार- सिन्दुवाररोहीतक-केतक-किरात-मधूकमोचामाधवीदमनकाञ्जन- कुरबक तिलका

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92