Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
पञ्चमोऽध्यायः
स्वाधीनपतिका प्रोषितभर्तृका कलहान्तरिता वासकसज्जा विरहोत्कण्ठिता विप्रलब्धा अभिसारिका खण्डिता चेति स्त्रीणामष्टाववस्थाः ॥५७॥
यस्याः सौभाग्यबद्धः पतिः पाश्र्वं न मुञ्चति सा स्वाधीनपतिका ॥५८॥
यथा
'लिखति कुचयोः पत्रं कण्ठे नियोजयति जं तिलकमलके कुर्वन् गण्डादुदस्यति कुन्तलान् । इति चटुशतैर्वारंवारं वपुः परितः स्पृशन् विरहविधुरो नास्याः पाश्र्वं विमुञ्चति वल्लभः ॥'
केनापि कारणवशेन यस्याः पतिर्देशान्तरं गतः सा प्रोषितभर्तृका ॥५९॥
यथा'श्वासा बाष्पजलं गिर: सकरुणा मार्गे च नेत्रार्पणं केनेदं न कृतं प्रियस्य विरहे कस्यासवो निर्गताः । सख्येवं यदि तेन नास्मि कलिता पान्थः कथं प्रोषितः प्राणा: संप्रति मे कलङ्कमलिनास्तिष्ठन्तु वा यान्तु वा ॥'
मानकलहेन निर्गते भर्तरि तत्सङ्गमसुखेनान्तरिता कलहान्तरिता ॥१०॥
यथा'उच्छ्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते निद्रा नैव न दृश्यते प्रियमुखं नक्तं दिनं रुद्यते । अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथा( थो )पेक्षितः सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥'
१५६
काव्यानुशासनम् ___ उचिते वासके प्रगुणीकृतसर्वोपकरणा वासकसज्जा ॥६ ॥
यथा'कस्तूरी परिमर्दय प्रियसखि श्रीखण्डमत्रानय मालां गुम्फ विधेहि केलिशयनं सज्जं प्रदीपं कुरु । सम्प्रत्येष्यति वल्लभो मम गृहे स्नेहैकपात्रं यतः प्राचीनाचलकाननानि भजते देवस्तमीवल्लभः ॥' चिरयति प्रेयसि विरहेणाकुलिता विरहोत्कण्ठिता ॥६२॥ यथा'किं रुद्धः प्रियया कयाचिदथवा सख्या ममोद्वेजितः किं वा कारणगौरवं किमपि यन्नाद्यागतो वल्लभः । इत्यालोच्य मृगीदृशा करतले संस्थाप्य वक्त्राम्बुजं दीर्घं निःश्वसितं चिरं च रुदितं क्षिप्ताश्च पुष्पस्रजः ॥'
केनापि कारणेन सङ्केतमनागतेन प्रियेण वञ्चिता विप्रलब्धा ॥६३॥
यथा'यत्सङ्केतगृहं प्रियेण कथितं संप्रेक्ष्य दूती स्वयं तच्छून्यं सुचिरं निषेव्य सुदृशा पश्चाच्च भग्नाशया । स्थानोपासनसूचनाय विगलत्सान्द्राञ्जनैरश्रुभिभूमावक्षरमालिकेव रचिता दीर्घ रुदन्त्या शनैः ॥'
या स्मरार्ता कान्तं स्वयमभिसरति तमभिसारयति वा साभिसारिका ॥४॥
१. 'विन्यस्य' इति साहित्यदर्पणे ।

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92