Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 74
________________ १३७ पञ्चमोऽध्यायः 'शापान्तो मे भुजगशयनादुत्थिते शार्गपाणौ शेषान्मासान् गमय चतुरो लोचने मीलयित्वा । पश्चादावां विरहगणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥' दैवाद्यथा'आपृष्टासि व्यथयति मनो दुर्बला वासरश्री रेह्यालिङ्ग क्षपय रजनीमेकिका चक्रवाकि । नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवासक्तस्तदिह भवतीमस्वतन्त्रस्त्यजामि ॥' पारवश्याद्यथा'उद्यत्प्रेम्णि प्रथमवयसि प्रावृषि प्राप्तवत्यां स्कन्धावारं जिगमिषुरयं मत्प्रियो मां विहाय । सेयं जाता जगति सकले सुप्रसिद्धा जनोक्ति रग्रग्रासनसनसमये मक्षिकासन्निपातः ॥' अथ हास्यरसमाह विकृतवेषादिविभावो नासौष्ठ-कपोल-स्यन्दन-दृष्टिव्याकोशनापकुञ्चन-स्वेदास्यराग-पार्श्वग्रहणाद्यनुभावो निद्रावहित्थ-तन्द्रा-त्रपालस्यादिव्यभिचारी हासाभिधानस्थायिभावश्चर्वणीयतां गतो हास्यरसतां याति ॥९॥ स चोत्तमानां स्मितरूपः, मध्यमानां विहसितरूपः, अधमानामपहसितरूपो भवति ॥१०॥ तत्र स्मितमीषद्विहसितकपोलं सौष्ठवोपेतदृष्टिभावमप्रेक्ष्यमाणदशनं भवति ॥११॥ विहसितं पुनराकुञ्चिताक्षिकपोलमीषदुद्भूतमुखरागं १३८ काव्यानुशासनम् भवति ॥१२॥ अपहसितं त्वस्थानहसितं साश्रुकणाक्रान्तनेत्रमुत्कम्पितांसशिरोविभागं भवति ॥१३॥ तत्र सामान्यहासोदाहरणम्'त्रस्तः समस्तजनहासकरं करेणो स्तावत्स्वरः प्रखरमुल्लमांचकार (?) । यावच्चलांसनविलोलनितम्बबिम्ब वित्रस्तवस्त्रमवरोधवधूः पपात ॥' अथ करुणमाह इष्टवियोगाऽनिष्टसं[ प्रयोगविभावो दैवोपालम्भनिःश्वास-तानव-मुखश्लेष-स्वरभेदाश्रुपात-वैवर्ण्य-प्रलयस्तम्भ[ वै]कम्प-भूलुठन-विलाप-गात्रांशाद्यश्रुभाव-निर्वेदग्लानि-चिन्तौत्सुक्य-मोह-श्रम-त्रास-विषाद-दैन्य-व्याधिजडतोन्मादापस्मारालस्य-मरणप्रभृति-दु:खमयव्यभिचारी चित्तवैधुर्यलक्षणः शोकाभिधानः स्थायिभावश्चर्वणीयतां गतः करुणरसतां याति ॥१४॥ यथा'हा मातस्त्वरितासि कुत्र किमिदं हा देव ताः क्वाशिषो धिक् प्राणान् पतितोऽशनिर्हतवहस्त्वनेषु' दग्धे दृशौ । इत्थं घर्घरमध्यरुद्धकरुणाः पौराङ्गनानां गिरश्चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ॥' अथ रौद्रमाह १. काव्यप्रकाशे तु 'स्तेङ्गेषु' इत्युपलभ्यते ।

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92