Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 72
________________ पञ्चमोऽध्यायः दोषमुक्तं गुणयुक्तमलङ्कारभूषितं शब्दार्थरूपमुक्तं काव्यशरीरम् । परं तत्त्वप्राणिशरीरमिव निरात्मकं न प्रतिभासते । अतः काव्यस्य प्राणभूतान् रसानाह । यदाह 'यामिनीवेन्दुना मुक्ता नारीव रमणं विना । लक्ष्मीरिव ऋते त्यागान्न वाणी भाति नीरसा ॥' यथा च'साधुपाकेऽप्यनास्वाद्यं भोज्यं निर्लवणं यथा । तथैव नीरसं काव्यमिति ब्रूमो रसान् (खलु) क्रमात् ॥' तत्र विभावानुभावैर्व्यभिचारिभिश्चाभिव्यक्ता रति-हासशोक-क्रोधोत्साह-भय-जुगुप्सा-विस्मय-शमाः स्थायिनो भावाः, क्रमेण श्रृङ्गारहास्यकरुणरौद्रवीरभयानकबीभत्साद्भुतशान्ता नव रसा भवन्ति ॥१॥ परस्परमास्थाबन्धात्मिका रतिः । हासश्चेतोविकासः । वैधुर्यं शोकः । तीक्ष्णत्वं क्रोधः । संरम्भो वैक्लव्यम् । भयं सङ्कोचः । जुगुप्सा चित्तविस्तारः । [आश्चर्य] विस्मयः । तृष्णाक्षयः शमः ॥ अथ क्रमेण रसांल्लक्षयति स्त्रीपुंसयोः परस्परावलोकन-माल्यर्तु-हर्म्य-पुर-शैल-नदीचन्द्रोपवनोद्यान-दीर्घिका-जलक्रीडा-विलेपनादिविभावा १३४ काव्यानुशासनम् जुगुप्सालस्यौग्र्य-वर्जसर्वव्यभिचारिभावा रतिः । स्थायीभावश्चर्वणीयतां गतः श्रृङ्गारः ॥२॥ 'स्त्रीपुंसयोः' इति वचनात् समविषयग्रामसमययोः स्थिरानुरागयोः संप्रयोगसुखैषिणोदूंनोः स्त्रीपुरूषयोर्या परस्परं रतिः स एव श्रृङ्गारः । देवगुरुमुनिपुत्रादिविषया तु रतिरनुभाव एव, न पुनः श्रृङ्गारः । तत्र देवविषया यथा 'नो मुक्त्यै स्पृहयामि नाथ विभवैः कार्यं न सांसारिकैः किं त्वायोज्य करौ पुनः पुनरिदं त्वामीशमभ्यर्थये । स्वप्ने जागरणे स्थितौ विचलने दुःखे सुखे मन्दिरे कान्तारे निशि वासरे च सततं भक्तिर्ममास्तु त्वयि ॥' एवमन्यदपि । ये चास्यानुगताः कटाक्ष-भुजक्षेपप्रभृतयोऽनुभावास्तेषामग्रे प्रपञ्च्यमानत्वान्नात्र विस्तरः ॥ स च सम्भोगविप्रलम्भाभ्यां द्विधा ॥३॥ तत्र सम्भोगमाह एकान्तसुखमयो धृत्यादिव्यभिचारी रोमाञ्च-खेद-कम्पाश्रुमोचन-मेखलास्खलन-ध्वसित-साध्वस-केशबन्ध-वस्त्रसंयमनाभरणादि-माल्यादिसम्यग्निवेशन-विचित्रेक्षण-चाटुप्रभृतिवाचिककायिकव्यापाराभावः परस्परालिङ्गनचुम्बनावलोकनाद्यनन्तभेदः संयुक्तयोः सम्भोगः ॥४॥ यथा'वक्त्रेन्दुः स्मितमातनोदधिगते दृष्टी विलासश्रियं बाहू कण्टककोरकाण्यबिभृतां प्राप्तं गिरो गौरवम् ।

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92