Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 75
________________ पञ्चमोऽध्यायः १३९ हारापहार-देशजात्यभिजन-विद्याकर्मनिन्दासत्यवचनस्वभृत्याविक्षेपोपहासवाक्याभाष्यद्रोहमात्सर्यादिविभावो नयनराग-भृकुटीकरुण-(र्ण )दन्तौष्ठपीडन-गण्डस्फुरण-हस्ताग्रनिःशेषताडन-पाटन-पीडन-प्रहरणाहरण-शस्त्रसम्पातरुधिराकर्षणच्छेदनाद्यनुभाव औग्यावेगोत्साह-विबोधानर्थचापलादिव्यभिचारी क्रोधाभिधानः स्थायीभावश्चर्वणीयतां गतो रौद्ररसतामाप्नोति ॥१५॥ यथा'उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसन्तानरोषात् कामं त्रिःसप्तकृत्वो जगति विशसतः सर्वतो राजवंशान् । पिङ्ग्य(?) तद्रक्तपूर्णहृदसवनमहानन्दमन्दायमानक्रोधाग्नेः सर्वतो मे न खलु न विदितः सर्वभूतैः स्वभावः ॥' अथ वीरमाह प्रतिनायकवर्तिनमविनय-सम्मोहाध्यवसाय-बल-शक्तिप्रताप-प्रभाव-विक्रमाधिक्षेपादिविभावः स्थैर्यौदार्य-धैर्यगाम्भीर्य-शौर्य-विशारदाद्यनुभावो धृति-स्मृत्यौग्रय-गर्वामर्षामावेग-हर्षादि-व्यभिचारी उत्साहाभिधानः स्थायिभावश्चर्वणीयतां गतो वीररसतां याति ॥१६॥ स च त्रिधा । दानवीरो धर्मवीरो युद्धवीरश्च । तत्र दानवीरा बलिजीमूतवाहनादयः । तद्यथा'स्वस्ति स्वागतमर्थ्यहं वद विभो किं दीयतां मेदिनी का (किं) मात्रा मम विक्रमत्रयमिदं दत्तं गृहीतं मया । १४० काव्यानुशासनम् मा देहीत्युशनाह किं हरिरयं पात्रं किमस्मात् पर मित्येवं बलिनाचितो मखमुखे पायात् स वो वामनः ॥' यथा च'शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति । तृप्ति न पश्यामि तवैव तावता किं भक्षणात्त्वं विरतो गरुत्मन् ॥' धर्मवीराः श्रीपार्श्वमहावीरप्रभृतयः । 'दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे । दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि ॥' यथा च'शठकमठविमुक्ताग्रावसङ्घातघात व्यथितमपि मनो न ध्यानतो यस्य नेतुः । अचलदचलतुल्यं विश्वविश्वैकधीरः स दिशतु शिवमीशः पार्श्वनाथो जिनो वः ॥' युद्धवीरा रामादयो मन्तव्याः ॥ अथ भयानकमाहपिशाचादिविकृतस्वरश्रवण-तदवलोकन-स्वजनवधबन्धादिदर्शन-शून्यगृहारण्य-तमआदिविभावः करकम्पचलदृष्टिनिरीक्षण-करस्पन्द-शुष्कौष्ठ-कण्ठ-मुखवैवर्ण्यस्वरभेदाद्यनुभावः शङ्कापस्मार-मरण-त्रास-चापलावेगदैन्यमोहादिव्यभिचारी स्त्रीनीचानां स्वाभाविकभयाभिधानः स्थायिभावश्चर्वणीयतां प्राप्तो भयानको रसः ॥१७॥ यथा

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92