Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
पञ्चमोऽध्यायः
१४१ 'जाताऽऽकस्मिकविस्मयैः किमिदमित्याकर्ण्यमानः सुरैः सद्यः स्तम्भितकर्णतालचलनाद्दिग्दन्तिनः कम्पयन् । जन्तूनां जनितज्वरः स मृगयाकोलाहलः कोऽप्यभूद् येनेदं स्फुटतीव निर्भरभृतं ब्रह्माण्डभाण्डोदरम् ॥' अथ बीभत्समाह
अहृद्यानामुद्धान्तवण-पूति-कृमि-कीटादीनां दर्शनश्रवणादिविभावोऽङ्गसङ्कोच-हल्लास-नासामुखविकूणनाच्छादननिष्ठीवनाद्यनुभावोऽपस्मार-रौद्य-मोह-गदादिव्यभिचारी जुगुप्साभिधानः स्थायिभावश्चर्वणीयतां गतो बीभत्सतामाप्नोति ॥१८॥
यथा'अन्नप्रोतबृहत्कपालनलकक्रूरक्कणत्कङ्कणप्रायप्रेखितभूरिभूषणरवैराघोषयत्यम्बरम् । पीतच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्लसद्व्यालोलस्तनभारभैरववपुर्दोद्धतं धावति ॥' तथाद्भुतमाह
दिव्यदर्शनेप्सितमनोरथावाप्त्युपधूतदेवकुलादिगमनसभाविमानमायेन्द्रजालातिशायिशल्यकर्मादिविभावो नयनविस्तारानिमेषप्रेक्षण-रोमाञ्चाश्रु-स्वेद-साधुवाददानाहोकार-चेलाङ्गलिभ्रमणाद्यनुभावो हर्ष-वेग-जडतादिव्यभिचारी विस्मयाभिधानः स्थायिभावश्चर्वणीयतां गतोऽद्भुतरसतामाप्नोति ॥१९॥
यथा'पादाङ्गष्ठनिपीडितामरगिरीत्रुट्यत्तटीविभ्रमद्भूगोलातिभरासहाहिनिवहाश्यामास्यनिर्यबृहत् ।
१४२
काव्यानुशासनम् निःश्वासोच्छलिताब्धिवारिलहरीविभ्रष्टतारावलिः पायाद्वो जिनवीरशैशववयोव्यापारलीलारसः ॥' यथा च'यत्रा_लिहभूरिभूधरशिरोऽग्रे हि स्खलत्स्यन्दनो देवोऽपि बुमणिः प्रयाति महता कष्टेन ताराध्वना । बाढं शैशवमक्षिमीलनकलामात्रेण संलध्यतां यात्रा कालपनन्दनेन विदधे श्रीपार्श्वनाथप्रभोः ॥' अथ शान्त:
वैराग्य-संसारभीरुता-तत्त्वज्ञान-वीतरागचरणपरिचरणपरमेश्वरानुग्रहादिविभावो यमनियमाध्यात्मशास्त्रचिन्तनाद्यनुभावो धृतिस्मृति(निश्चेष्ट )मत्यादिव्यभिचारी शमाभिधानः स्थायिभावश्चर्वणीयतां गतः शान्तरसतां याति ॥२०॥
यथा'अहो वा हारे वा कुसुमशयने वा दृषदि वा मणौ वा लोष्ठे वा बलवति रिपौ वा सुहृदि वा । तुणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसा: कदा पुण्येऽरण्ये जिन जिन जिनेति प्रलपतः ॥'
विभावैरनुभावैर्व्यभिचारिभिश्चाभिव्यक्ता इत्युक्तम् । तत्र व्यभिचारिणो ब्रूते
धृति-स्मृति-मति-व्रीडा-जाड्य-विषाद-मद-व्याधिनिद्रा-सुप्तौत्सुक्यावहित्थाशङ्काचापलालस्य-हर्ष-गौग्रयप्रबोध-ग्लानि-दैन्य-श्रमोन्माद-मोह-चिन्तामर्ष-त्रासापस्मार
१. चेष्टाहानेरनुभावत्वेन रसगङ्गाधरे निर्मीतत्वादत्रास्य पाठ प्रक्षिप्तः प्रतीयते ।

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92