Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
१४४
काव्यानुशासनम्
पञ्चमोऽध्यायः
१४३ निर्वेदावेग-वितर्कासूयामृतयः शान्ति-स्थित्युदय-प्रशमसबलत्वधर्माणस्त्रयस्त्रिंशद्वयभिचारिणः ॥२१॥ ___ तत्र धृतिः संतोषः । स्मृतिः स्मरणम् । मतिरर्थनिश्चयः । व्रीडा चित्तसङ्कोचः । जाड्यमाप्रतीतिः । विषादो मन:पीडा । मद आनन्दसम्मोहसम्भेदः । व्याधिर्मनस्तापः । निद्रा मनःसम्मीलनम् । सप्तं निद्राया गाढावस्था । औत्सुक्यं कालाक्षमत्वम् । अवहित्थाऽऽकारगुप्तिः । शाऽनिष्टोत्प्रेक्षा । चापलं चेतोऽनवस्थानम् । आलस्यं पुरुषार्थेष्वनादरः । हषश्चत:प्रसादः । गर्वं परावज्ञा । अत्युग्रता चण्डता । प्रबोधो विनिद्रत्वम् । ग्लानिर्बलापचयः । दैन्यमनौजस्यम् । श्रमः खेदः । उन्मादश्चित्तस्य विप्लवः। मोहो मूढत्वम् । चिन्ता ध्यानम् । अमर्षः प्रतिचिकीर्षा । त्रासश्चित्तचमत्कारः । अपस्मार आवेशः । निर्वेदः स्वावमाननम् । आवेगः सम्भ्रमः । वितर्कः संभावना । असूया अक्षमा । मृतिम्रियमाणता। एते च शान्ति-स्थित्युदय-प्रशम-शबलत्वधर्माणः ।
तत्र निद्रायाः स्थिति(शान्ति)र्यथा'प्रत्यग्रोन्मेषजिह्वाक्षणमनभिमुखी रत्नदीपप्रभाणामात्मव्यापारगुर्वीजनितजललवाक्षम्भणैः स्वाङ्गभङ्गैः । नागाक(एं)मोक्तुमिच्छोः शयनगुरुफणाचक्रवालोपधानं निद्राच्छेदाभिताम्रा चिरमवतु हरेर्दृष्टिराकेकरा वः ॥' स्थितियथा'लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च । सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभिश्चिन्तासन्ततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया ॥' अत्र वितर्कस्य स्थितिः । उदयो यथा
'कृतगुरुतरहारच्छेदमालिङ्ग्य पत्तौ परिशिथिलितगात्रे गन्तुमापृच्छ्यमाने । विगलितनवमुक्तास्थूलबाष्पाम्बुबिन्दुस्तनयुगमबलायास्तत्क्षणाद्रोदितीव ॥' अत्र विषादस्योदय । सन्धिर्यथा'एकेनाक्ष्णा प्रविततरुषा पाटलेनास्तसंस्थं पश्यत्यक्ष्णा स्वजललुलितेनापरेण स्वकान्तम् । अह्नश्छेदे दयितविरहाशङ्किनी चक्रवाकी द्वौ संकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ॥' अत्र रोषदैन्ययोः सन्धिः । शबलता यथा'क्वाकार्य शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वजेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु जनो धन्यो धुरं धास्यति ।' अत्र वितकौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलत्वम् । एवमन्येष्वपि व्यभिचारिषूदाहार्यम् || अथ सात्विकानाहस्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गश्च वेपथुः । वैवाश्रुप्रलापाश्च इत्यष्टौ सात्त्विकाः स्मृताः ॥२२॥
१. अत्र 'क्वाकार्यम्' इति वितर्कः, 'भूयोऽपि' इत्यौत्सुक्यम्, 'दोषाणाम्' इति मतिः, 'कोपेऽपि' इति स्मृति:, "किं वक्ष्यति' इति शङ्का, 'स्वप्नेऽपि' इति दैन्यम्, 'चेतः स्वास्थ्यम्' इति धृतिः, 'कः खलु' इति चिन्ता, स्फुटं पूर्वपूर्वोपमर्दैन प्रतीयमाना शबलता चमत्कारभूमि:' इति काव्यप्रदीपे स्पष्टमुक्तम् ।

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92