Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
चतुर्थोऽध्यायः
संस्कृतपैशाचिकयोर्यथा—
'चम्पककलिकाकोमलकान्तिकपोलाऽथ दीपिकानङ्गी । इच्छति गजपतिगमना चपलायतलोचना लपितुम् ॥' संस्कृतसूरसेन्योर्यथा—
'अधरदलं ते तरुणा मदिरामदमधुरवाणि सामोदम् । साधु पिबन्तु सुपीवरपरिणाहिपयोधराम्भे ॥' संस्कृतापभ्रंशयोर्यथा—
'क्रीडन्ति प्रसरन्ति मधु कमलप्रणयि लिहन्ति । भ्रमरा मित्र सुविभ्रमा मत्ता भूरि रसन्ति ॥ ' षण्णामपि भाषाणां योगो यथा -
'अलोलकमले चित्ते ललाम कमलालये । पाहि चण्डि महामोहभंगभीमबलामले ॥'
अखण्डितभेदैरभङ्गश्लेषः ॥ १५ ॥
यथा
'किं तत्रास्ति निरन्तरं न भवतः सङ्गः कुरङ्गीदृशां किं वा तत्र तथा पयोधरपरिष्वङ्गोऽपि नाह्लादकः । यन्मामत्र विहाय निर्वृतिमना नाथोज्जयन्तं गतः पायाद्वोऽभिहितः स भोजसुतया देवः शिवानन्दनः ॥' तुल्यं श्रुतिक्रमाक्षरावृत्तिर्यमकम् ॥१६॥ तच्च श्लोक श्लोकार्धपादभागभेदैरनेकधा ॥१७॥ तत्र श्लोकयमकं महायमकं यथा'सत्त्वारम्भरतोऽवश्यमवलम्बिततारवम् । सर्वदारणमानैषी दावानलसमस्थितः ॥'
१२९
१३०
असावेव पृथगर्थतया 'द्विः परावर्तनीयः ।
अर्धावृत्त्या अर्धयमकं समुद्गकं यथा
'ननाम लोको विदमानवेन मही न चारित्रमुदारधीरम्' ।
इदमर्धं पृथगर्थतया द्विः `परावर्तनीयम् ॥
पादयमकं मुखं सन्दंश आवृत्तिगर्भसन्दष्टकपुच्छपङ्क्तिपरिवृत्तियुग्मकभेदैर्नवधा ॥१८॥
तत्र प्रथमद्वितीययोः पादयोरावृत्त्या मुखयमकं यथा
'चक्रं दहतारं चक्रन्द हतारम् । खड्गेन तवाजौ राजन्नरिनारी ॥' प्रथमतृतीययोरावृत्त्या सन्दंशः ॥ १९ ॥
काव्यानुशासनम्
यथा—
'सारं गवयसान्निध्यराजत्काननमग्रतः । सारङ्गवयसान्निध्यदारुणं शिखरे गिरेः ॥'
प्रथमचतुर्थयोरावृत्त्या सन्देशः ॥२०॥ यथा आवृत्ति:
'आसन्नदेवा नरराजराजिरुच्चैस्तटानामियमत्र नाद्रौ । क्रीडाकृतो यत्र दिगन्तनागा आसन्नदे वानरराजराजिः ॥ ' द्वितीयतृतीययोरावृत्त्या गर्भः ॥२१॥
यथा
१. स त्वारं भरतो ऽवश्यमबलं विततारवम् । सर्वदा रणमानैषीदावानलसमस्थितः ॥' इति काव्यप्रदीपे रुद्रयलङ्कारे च स्फुटः ।
२. 'न नामलो कोविदमानवेनमहीन चारित्रमुदारधीरम्' इति रुद्रटालङ्कारे ।

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92