Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
१२५
चतुर्थोऽध्यायः
भिन्नकण्ठो ध्वनिः काकुः । तद्वक्रोक्तिर्यथा'लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य । आकृष्य पाण्डववधूपरिधानकेशान् स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ॥' यथा च'अपि चण्डानिलोद्भूततरङ्गस्य महोदधेः । शक्येत प्रसरो रोद्धं नानुरक्तस्य चेतसः ॥'
अदूरान्तरिताऽऽवृत्तिरनुप्रासश्छेकवृत्तिलाटभेदेन त्रिधा ॥१०॥
आवृत्तिः पुनः पुनर्निबन्धः । अर्थाद्वर्णानां पदानां वा । सर[?]रसाद्यनुगतः प्रकृष्टो न्यासोऽनुप्रासः ॥
स च त्रिधा भवतीत्याहसकृद्वर्णावृत्तिश्छेकानुप्रासः ॥११॥ वर्णावृत्तिरिति समस्तं पदम् । यत्रैकस्य यथा'ततोऽरुणपरिस्यन्दमन्दीकृतवपुः शशी । दर्तो कामपरिक्षामकामिनीगल्लपाण्डुताम् ॥' अनेकवर्णानां यथा'निरानन्दः कौन्दे मधुनि विधुरो बालबकुले न साले सालम्बो लवमपि लवङ्गे न रमते । प्रियङ्गो! सङ्गं रचयति न चूते विचरति स्मरॅलक्ष्मीलीलाकमलमधुपानं मधुकरः ॥' असकृद् वृत्त्यनुप्रासः ॥१२॥
१२६
काव्यानुशासनम् वर्णावृत्तिरित्यनुवर्तते । यथा वर्णस्य'वाचाटा कटपूतनाचटुपटुः कापट्यकोटी पुटी विस्पष्टा नृतनाटिकानटभटी लाम्पट्यसाटाटवी । व्याचष्टे प्रकटं जनाश्रुतिपुटी तट्टीकते वो मुचा साटोपे भुवि नाभिभावकभटे मट्यत्र वर्तिन्यपि ॥' अनेकस्य यता'स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटामूर्छन्मोहमहर्षिहर्षविहितस्नानाह्निकालाय वः । भिद्यादुद्यदुदारदर्दरदरी दीर्घादरिद्रद्रुमद्रोहोद्रेकमयोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥' सकृदसकृद्वा पदावृत्तिबटानाम् ॥१३॥
अत्रापि पदावृत्तिरिति समस्तं पदम् । तेन पदस्य पदानां वा सकृद् असकृद्वा आवृत्तिाटानां प्रियत्वाल्लाटानुप्रासः । पदस्य यथा
'निशाकरकरस्मरैर्गुणैर्गुणवतां मतैः । जने जनयति प्रीति प्रीत्यानतनृपो नृपः ॥' असकृद्यथा'सम्यङ् निषेध्य चतुरश्चतुरोऽप्युपायान्जित्वोपभुज्य च भुवं चतुरब्धिकाञ्चीम् । विद्याचतुष्टयविनीतमतिर्जितात्मा काष्ठामवाप पुरुषार्थचतुष्टये यः ॥' अनेकस्यासकृद्यथा'वस्त्रायन्ते नदीनां सितकुसुमधराः शक्रसङ्काश काशा: काशाभा भान्ति तासां नवपुलिनतटे स्त्रीनदीहंसहंसाः । हंसाभाम्भोदमुक्तः स्फुरदमलवपुर्मेदिनीचन्द्र चन्द्रश्चन्द्राङ्कः शारदस्ते जयकृदुपनतो विद्विषां कालकालः ॥'

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92