Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
चतुर्थोऽध्यायः
१२१ द्विव्यादिस्वरैश्चोदाहार्यम् ॥
एकद्विव्यादिव्यञ्जननियमो व्यञ्जनचित्रम् ॥५॥ एकव्यञ्जनं यथा'किकांकुकुं ककेकाङ्क केकिकौकैककः ककः । ककुकी कः कका काकः कक्चाकुकुक कां ककुः ॥' द्विव्यञ्जनचित्रं यथा'दूरादारदरोदार दूरोदरदुरादुरः । दरदी दद्गुरदरा दारं दारं दरैरदान् ॥' एवं त्र्यादिव्यञ्जनचित्रम् उदाहार्यम् ॥ कण्ठतालुमूर्धदन्तौष्ठादिस्थाननियमः स्थानचित्रम् ॥६॥ यथा'सूनुसूनुदितिसूनुं निन्युर्युद्भूमिमुब्भितुम् । स्थितिमूत्वुः श्रुतिर्नीति-स्मृती इषु रुजीदृशी ॥' अकण्ठ्योऽयम् । 'आसाद्य सात्वतो बाणं प्राणति कृष्णसर्पवत् । तत्पृष्टो तारथोपस्थं मोहापन्नोपतत्परः ॥' अतालव्योऽयम् । 'भौमसूनुं समायान्तं समायान्तं महाभुजः । अभ्यगच्छद्वासुदेवो वासुदेवो मधुं यथा ॥' अमूर्धन्यः । 'उभयोः शरराजीभिरराजीभिश्चमूकयोः । अर्काशुश्री: पराभाजि पराभाजि च खाजिरे ॥' अदन्त्यः ।
१२२
काव्यानुशासनम् 'नाचालीत् सात्यकिः शौर्यात् स तेन निहतस्तथा । गिरिः कररदाघातैः करिणा कीर्तयेऽत्र किम् ॥' निरौष्ठ्यः ॥ मात्राबिन्दुर्वर्णादिभेदैश्च्युतमनेकधा ॥७॥ तत्र मात्राच्युतकं यथा'भूतियोजितभर्तव्यः कृपणाक्रान्तमण्डलः । महापदशुभावासः त्वत्समः कुपतिः कुतः ॥' अत्र कृपणेति आकारस्य च्युतिः । बिन्दुच्युतकं यथा'सहसा नलिनी ताराशारिता गगनावनिः । शोभते भूमिपालानां सभा च विबुधाश्रिता ॥' सह हंसेन वर्तते सहंसा। वर्णच्युतकं यथा'परहिततत्परो दुरितवारहरो भगवान्भयनाशको जगति वीर इति सुरवन्दितः प्रथितशान्तिरलं मदनापहः शिवसुखं शिवोद्भवो भवक्षयनाशको जगति वीर इति प्रभवः श्रियां नरसुरवन्दितः प्रथितशान्तिरलं वृषभो जयी जिनो मदमदनापहः शिवसुखं तनुतां भवतां मुहुर्मुहुः ॥' अत्र सिद्धिच्छन्दसि नेमिनाथस्तुतिः । अत्र चान्तरवृत्तम्'परहिततत्परो दुरितवारहरो भगवा भवभयनाशको जगति वीर इति ।

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92