Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 67
________________ १२३ चतुर्थोऽध्यायः सुरवन्दितः प्रथितशान्तिरलं मदनापहः शिवसुखं तनुताम् ।' अत्र प्रमिताक्षरे छन्दसि श्रीवीरनाथस्तुतिः । 'दुरितवारहरो भगवाशिवो जगति वीर इति प्रभवः श्रियाः । प्रथितशान्तिरलं वृषभो जयी शिवसुखं तनुतां भवतां मुहुः ॥' अत्र द्रुतविलम्बितच्छन्दसि वृषभनाथस्तुतिः ॥ गुप्तकं क्रियाकारकसम्बन्धविषयत्वेन चतुर्धा ॥८॥ तत्र कियागुप्तकम्'प्रत्यक्षेऽपि परोक्षेऽपि येन वीर्यं महीभृताम् । तस्य देवतुरुष्कस्य के गुणग्रहणे वयम् ॥' अत्र प्रत्यक्षेऽपीति किया। कारकगुप्तकं यथा'केनेमौ दुर्विदग्धेन हृदये विनिवेशितौ । पिबतस्ते शरावेण वारि कलारशीतलम् ॥' अत्र शराविति कर्मणो गुप्तत्वम् । सम्बन्धगुप्तकं यथा'न मया गोरसाभिज्ञं चेतः कस्मात् प्रकुप्यसि । अस्थानरुदितैरेभी रत्नमालोहितेक्षणे ॥' अत्र न मे अगोरसाभिज्ञमिति सम्बन्धगुप्तकम् । पादगुप्तकं यथा'घुवियद्गामिनी तारसंरावविहतश्रुतिः । हेमेषु माला शुशुभे ।' अत्र 'विद्युतामिव संहतिः' इति चतुर्थपादस्य गुप्तत्वम् । आदिशब्दात् प्रश्नोत्तर-प्रहेलिका-दुर्वचकादयोऽपि भवन्ति । परं कष्टकाव्यत्वात् १२४ काव्यानुशासनम् क्रीडामात्रफलत्वान्नात्र प्रपञ्चिताः || परोक्तस्य श्लेषेण काक्वा वाऽन्यथोक्तिर्वक्रोक्तिः ॥९॥ तत्र श्लेषवक्रोक्तिद्विधा भङ्गश्लेषेणाभङ्गश्लेषेण च । तत्र भङ्गश्लेषण यथा ''सद्वाः प्रेयसि दीयतां प्रियतम द्वारं किम( मु)च्छाद्यते सत्कं सुन्दरि याचितं कथय मे किं कस्य सत्कं प्रिय । श्रीनाभेयजिनस्य 'मज्जनजलं कस्त्वं जनः किं जलं दम्पत्यैरिति जल्पितं जिनपतेः स्नानोत्सवे पातु वः ॥' अभङ्गश्लेषे यथा'कोऽयं द्वारि, हरिः, प्रयाापवनं शाखामृगस्यात्र किं, कृष्णोऽहं दयिते, बिभेमि नितरां कृष्णादहं वानरात् । कान्तेऽहं मधुसूदनो, व्रज लतां तामेव मध्वन्विता मित्थं निविषयीकृतो दयितया हीतो हरिः पातु वः ॥' यथा च'भर्तुः पार्वति नाम कीर्तय न चेत्त्वां ताडयिष्याम्यहं क्रीडाब्जेन शिवेति सत्यमनघे किं ते श्रृगालः पतिः । नो स्थाणुः किमु कीलको नहि पशुस्वामी तु गोप्ता गर्दा दोलाखेलनकर्मणीति विजयागौर्योगिरः पान्तु वः ॥' १. व्यजनपरस्यैकस्यानेकस्य वा समानव्यञ्जनस्योच्चारणे श्रवणयोर्विशेषाभावस्य 'दीडो युडचि' इति सूत्रभाष्यसम्मतत्वेन जलद्वारार्थकता । २. 'सुखशीर्षजलेषु कम्' इति मेदिनीतो जलार्थकशब्दस्य सुखार्थत्वमपि । ३. स्नानजलमित्यभिप्रायवतो मज्जनजलशब्दस्य 'मम जनस्य जलम्' इत्यभिप्रायेण प्रश्नः ।

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92