Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 40
________________ ७२ काव्यानुशासनम् द्वितीयोऽध्यायः निजपञ्चमाकान्ता वर्गा यथा'शिञ्जानमञ्जमञ्जीराश्चारुकाञ्चनकाञ्चयः । कङ्कणाङ्कभुजा भान्ति जितानङ्ग तवाङ्गनाः ॥' हुस्वान्तरितौ रणौ यथा'दारुणरणे रणन्तं करिदारणकारणं कृपाणं ते । रमणकृते रणरणकी पश्यति रमणीजनो दिव्यः ॥' 'टवर्गरहिताः' इति वचनाट्टवर्गो न कार्यः । यथा'अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठिनाम् । कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥' ओजोगुणयुक्ता गौडीया रीतिः । अस्यां च बन्धौद्धत्यं समासदैर्घ्यं संयुक्तवर्णत्वं प्रथमतृतीयाक्रान्तौ द्वितीयचतुर्थों युक्तौ रेफश्च कार्यः ॥७३॥ प्रसादगुणयुक्ता पाञ्चाली । अत्र सुश्लिष्टो बन्धः प्रसिद्धानि च पदानि ॥७४॥ 'निजकरनिकरसमृद्ध्या धवलभुवनानि पार्वणशशाङ्कः । सुचिरं हन्त न सहते हतविधिरिह सुस्थिरं किमपि ॥' एताश्चोपनागरिका परुषा कोमलेति केचिदाहुः । यदाह'माधुर्यव्यञ्जकैः शब्दैरुपनागरिकेष्यते । ओजःप्रकाशकैस्तैस्तु परुषा कोमला परैः ॥ केषाञ्चिदेता वैदर्भीप्रमुखा रीतयो मताः ॥' इति महाकविश्रीवाग्भटविरचितायामलङ्कारतिलकाभिधानस्वोपज्ञकाव्यानुशासनवृत्तौ दोषगुणविवेचनो नाम द्वितीयोऽध्यायः । यथा 'दंष्ट्रालः स्फुटकुन्दकुड्मलशतैर्जिह्वाल उल्लासिभिः किं किल्लिद्रुमपल्लवैः शितमुखैः प्रेङ्खन्नखः किंशुकैः । वल्लीजालविशालबालधिरसावत्रोज्जयन्ताचलो बन्धूकोद्धतलोचन प्रकुरुते शार्दूलविक्रीडितम् ॥' यथा च'मू मुवृत्तकृत्ताविरलगलगलद्रक्तसंसक्तधारा धौतेशाञ्जिप्रसादोपनतजयजगज्जातमिथ्यामहिम्नाम् । कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदर्पोद्धराणां दोष्णां चैषामिदं तत्फलमिह नगरीरक्षणे यत्प्रयासः ॥'

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92