Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
७७
७८
तृतीयोऽध्यायः 'लिङ्गवचनवैषम्यं हीनाधिक्यं चोपमादोषः ॥५॥ तत्र लिङ्गवचनवैषम्यं यथा'परमातेव निःस्नेहा: परकार्याणीव शीतलाः । सक्तवो भक्षिता राजन् शुद्धाः कुलवधूरिख ।' हीनाधिक्यं यथा'शुनीयं गृहदेवीव प्रत्यक्षा प्रतिभासते । खद्योत इव सर्वत्र प्रतापश्च विराजते ॥'
चन्द्रेण त्वन्मुखं तुल्यमित्याचिख्यासु मे मनः । स गुणो वास्तु दोषो वेत्याचिख्यासोपमा विदुः ।। शतपत्रं शरच्चन्द्रस्त्वदाननमिति त्रयम् । परस्परविरोधीति सा विरोधोपमा मता ।। न जातु शक्तिरिन्दोस्ते मुखेन प्रतिजितुम् । कलङ्किनो जडस्येति प्रतिषेधोपमैव सा ।। मृगेक्षणाळू ते वयं मृगेणैवाङ्कितः शशी । तथापि सम एवासौ नोत्कर्षीति चटूपमा ।। न पां मुखमेवेदं भृङ्गौ तु चक्षुषी इमे । इति विस्पष्टसादृश्यात्तत्वाख्यानोपमैव सा ।। चन्द्रारविन्दयोः कान्तिमतिक्रम्य मुखं तव । आत्मनैवाभवत्तुल्यमित्यसाधारणोपमा । सर्वपद्यप्रभासारः समाहत इव क्वचित् । त्वदाननं विना भाति तामभूतोपमा विदुः ॥ चन्द्रबिम्बादिव विषं चन्दनादिव पावकः । परुषा वागितो वक्त्रादित्यसंभावितोपमा । चन्दनोदकचन्द्रांशुचन्द्रकान्तादिशीतलः । स्पर्शस्तवेत्यतिशयं प्रथयन्ती बहूपमा । चन्द्रबिम्बादिवोत्कीर्णं पद्मगर्भादिवोद्धतम् । तव तन्वनि वदनमित्यसौ विक्रियोपमा । पूष्ण्यातप इवाहीव पूषा व्योम्नीव वासरः । विक्रमस्त्वय्यधालक्ष्मीमिति मालोपमाकमा । वाक्यार्थेनैव वाक्यार्थः कोऽपि यधुपमीयते । एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा । वस्तु किशिदुपन्यस्य व्यसनात्तत्सधर्मणः । साम्यप्रतीतिरस्तीति प्रतिवस्तूपमा यथा ॥ अधिकेन समाहृत्य हीनमेकक्रियाविधौ । यद्वदन्ति स्मृता सेयं तुल्ययोगोपमा यथा ॥ कान्त्या चन्द्रमसं धाम्ना सूर्य धैर्येण चार्णवम् । राजन्ननुकरोषीति सैषा हेतूपमा स्मृता ॥" इत्यादिरीत्या दण्डिग्रन्थे विस्तरः । (काव्यादर्श-) १. 'न लिङ्गवचने भिन्ने न न्यूनाधिकतापि वा । उपमा दूषणायालं यत्रोद्वेगो न धीमताम् ॥' इति
दण्डी ।
काव्यानुशासनम् अत्यन्तसादृश्यादसतोऽपि धर्मस्य कल्पनमुत्प्रेक्षा ॥६॥ तां चेव-मन्ये-शङ्के-ध्रुवमित्यादिभिर्योतयेत ॥७॥ इव यथा'दिशतु विरतिलाभानन्तरं पार्श्वसर्प नमिविनमिकृपाणोत्सङ्गदृश्याङ्गलक्ष्मीः । त्रिजगदपगतापत्कर्तुमात्तान्यरूपद्वय इव भगवान् वः सम्पदं नाभिसूनुः ॥' मन्ये यथा'नाभेयचैत्यसदने दिशि दक्षिणस्यां द्वाविंशतिं विदधता जिनमन्दिराणि । मन्ये निजाग्रजवरप्रभुराहडस्य पूर्णीकृतो जगति येन यशःशशाङ्कः ॥' शङ्के यथा'विरक्तसंध्यापुरुषं पुरस्ताद्यथा रजः पार्थिवमुज्जिहीते । शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः ॥' ध्रुवं यथा'क्लमं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं विगाह्यते । ध्रुवं वपुः काञ्चनपद्यनिर्मितं मृदुप्रकृत्या च सुरार ? )मेव च ॥' नूनं यथा'यदङनारूपसरूपतायाः कञ्चिद्गुणं भेदकमिच्छतीभिः । आराधितोद्धामनुरप्सरोभि श्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः ॥'

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92