Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
तृतीयोऽध्यायः
दामाडम्बरमम्बरे विरचितं यच्चोन्नतं दूरतः । तेषां पर्यवसानमीदृशमिदं जातं यदम्भोधर द्वित्रा: कृत्रिमरोदना श्रुतनवो मुक्ताः पयोबिन्दवः ॥ '
क्वचित् स्तुतिरूपा यथा
'क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्राणोऽपि कष्टां दशा मापन्नोऽपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि ।
मत्तेभेन्द्रविशालकुम्भदलनव्यापारबद्धस्पृहः किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी ॥'
उभयरूपा यथा
'निष्कन्दामरविन्दिनीं स्थपुटितोद्देशां कशेरुस्थलीम् । जम्बालाविलमम्बु कर्तुमितरा सूते वराही सुतान् । दंष्ट्रायां चतुरर्णवोर्मिपटलैराप्लावितायामियं यस्या एव शिशोः स्थिता वसुमती सा पुत्रिणी पौत्रिणी ॥' उपमेयश्लेषोक्तौ उपमानप्रतीतिः समासोक्तिः ॥ ११ ॥
८१
यथा
'उपोढरागेण विलोलतारकं तथागृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ॥' उपमेयस्य किञ्चिदुक्तावप्रस्तुतप्रशंसा ॥१२॥
यथा
'लावण्यसिन्धुरपरैव हि केयमत्र
यत्रापरे कदलिकाण्डमृणालदण्डाः । यत्रोत्पलानि शशिना सह संप्लवन्ते उन्मज्जति द्विरदकुम्भतटी च यत्र ॥' ध्वनिताभिधानं पर्यायोक्तिः ॥ १३॥
काव्यानुशासनम्
वाच्यादिव्यतिरिक्तस्यार्थस्य प्रतीतिर्ध्वनितम् । तस्याभिधानं पर्यायेण समीहितार्थोक्तिः पर्यायोक्तिः । सा च वाच्ये विधिरूपे क्वचिन्निषेधरूपा
८२
यथा
'भम धम्मिअ वीसत्थो सो सुणहो अज्ज मारिओ देण । गोलाणइकच्छकु ंगवासिणा दरिअसींहेण ॥'
[छाया: 'भ्रम धार्मिक विश्रब्धः स शुनकोऽद्य मारितस्तेन । गोदानदीकच्छनिकुञ्जवासिना दृप्तसिंहेन ॥]
अत्र विश्रब्धो भ्रमेति विधिवाक्ये सांप्रतं तत्र सङ्केतस्थाननिकुञ्ज सिंहः समायातोऽस्तीति त्वया तत्र न गन्तव्यमिति निषेधः प्रतीयते ॥
क्वचिन्निषेधे विधिर्यथा
'एकाकिनी यदबला तरुणी तथाह मस्मिन्गृहे गृहपतिश्च गतो विदेशम् । किं याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ ॥'
अत्र वासं किं याचसे समीहितक्रीडादिकमपि कुरुष्वेति विधिः प्रतीयते ॥ क्वचिद्विधौ विध्यन्तरं यथा
'मध्याह्नेऽतिखरे निदाघसमये तापं खौ मुञ्चति शीते कुब्जवटे सुपत्रनिचये हे पान्थ विश्राम्यताम् । एकाकी च भवानहं च तरुणी शून्या प्रपा वर्तते लज्जा मे भणितुं त्वमेव चतुरो जानासि कालोचितम् ॥' अत्र विश्राम्यतामिति विधौ मामुपभुङ्क्ष्वेति विध्यन्तरं प्रतीयते ॥ क्वचिन्निषेधे निषेधान्तरं यथा
'वयं बाल्ये डिम्भांस्तरुणिमनि यूनः परिणता वपीप्सामो वृद्धान्परिणयविधिस्तु स्थितिरियम् ।

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92