Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
तृतीयोऽध्यायः
'मदिरामदभरपाटलकपोलतललोचनेषु वदनेषु । कोपो मनस्विनीनां न लक्ष्यते कामिभिः प्रभवन् ॥' प्रसिद्धाधारं विनाऽप्याधेयावस्थान विशेषः ॥४५॥ यथा'दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः ॥' अर्वाचीनस्यार्थस्य पृथगभिधानं पूर्वम् ॥४६॥ 'यथा'हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन । चरमं रमणीवल्लभ लोचनविषयं त्वया भजता ॥' कार्यकारणयोरभेदो हेतुः ॥४७॥
काव्यानुशासनम् इङ्गिताकारलक्ष्येऽर्थे सूक्ष्मम् ॥४९॥ यथा'अद्यापि तन्मनसि सम्प्रति वर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या । जीवेति मङ्गलवचः परिहत्य कोपात्कर्णे कृतं कनकपत्रमनालपन्त्या ।' कार्यतो गुणदोषविपर्ययो लेशः ॥५०॥ तत्र गुणस्य दोषीभावो यथा'द्वित्रैः पाणिसरोरुहं त्रिचतुरैर्धम्मिल्लमाल्यस्रजः कण्ठान्मौक्तिकमालिकास्तदनु च क्षिप्ताः पदैः पञ्चषैः । हित्वा भारपरम्परामिति जवात्त्वद्दर्शनोत्कण्ठिता तन्वङ्गी निरुपायमध्वनि मुहुः श्रोणीभरं निन्दति ॥' दोषस्य गुणीभावो यथा'सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणाः सर्वत्रैव परापवादचकितास्तिष्ठन्त्यहो दुष्करम् । अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥' निन्दासमता वोपमानेनोपमेयस्य भङ्ग्या स्तुतिर्वा प्रतीपम् ॥५१॥
निन्दा यथा'वदनमिदं सममिन्दोः सुन्दरमपि ते कथं चिरं न भवेत् । मलिनयति यत्कपोलौ लोचनसलिलं हि कज्जलवत् ॥'
यथा
'अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः । रम्योऽयमेति संप्रति लोकोत्कण्ठाकरः कालः ॥' समुदायादुत्कृष्टोत्कृष्टनिर्धारणं सारम् ॥४८॥ यथा'संसारे मानुष्यं सारं मानुष्यके च कौलीन्यम् । कौलीन्ये धर्मित्वं धर्मित्वे चापि सदयत्वम् ।'
१. काव्यप्रदीपे तु कार्यकारणयोः पौर्वापर्यविपर्ययरूपातिशयोक्त्युदाहरणत्वमङ्गीकृतम् ।
२. "नन्वेवमत्र कार्यकारणभावालंकृतिप्रपञ्चनप्रसङ्गेन हेत्वलङ्कारोऽपि लक्षणार्हः । उक्तश्चार्य भट्टोद्भट्टेन-'हेतुमता सह हेतोरभिधानमभेदतो हेतुः' इति । तत्कि न लक्षित:-इति चेत् 'आयुघृतम्' इत्यादिरूपस्यास्य वैचित्र्याभावेनालङ्कारत्वस्यैवाभावात् ॥” इत्यादि कारणमालालङ्कारप्रकरणे काव्यप्रदीपे द्रष्टव्यम् ।
समता यथा

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92