Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 57
________________ चतुर्थोऽध्यायः अर्थालङ्कारानुक्त्वा शब्दालङ्कारानाह चित्र - श्लेषानुप्रास - वक्रोक्ति-युक्ति-यमक- पुनरुक्तवदाभासाः षट् शब्दालङ्काराः ॥ १ ॥ क्रमेण लक्षयति आकार - गति - स्वर - व्यञ्जन-स्थान- नियम- च्युत-गुप्तादिभेदैरनेकधा चित्रम् । बन्धस्य खड्ग- धनुर्बाण - मुसल - शूलशक्ति-हल-च्छत्र-पद्म-मुरज-चक्र- स्वस्तिकाद्याकारसादृश्यादाकारचित्रम् ॥२॥ तत्र खड्गबन्धो यथा 'भव्यानां परमानन्दकन्दोद्भेदघनाघनः नतामरशिरोरत्नविवर्धितनखप्रभः ॥' 'भवाब्धिपरपारान्तप्रापणपोतसन्निभः । भर्ता विमलतीर्थेश कुरु मे निर्मलं मनः ॥' धनुर्बन्धो यथा— 'अनन्तज्ञानसन्ताननिध्यातभुवनत्रयः । यतीन्द्रसेव्यचरणः श्रियेऽनन्तजिनोऽस्तु वः ॥' बाणबन्धो यथा १०६ 'मुखेन्दुचन्द्रिकापूररतामरचकोरकः । करोतु धर्मो निर्मारः सुरलोकनतः श्रियम् ॥' मुसलबन्धो यथा 'सदाशान्तिर्जगन्नाथः श्रियं शान्तिं तनोतु नः । नतशान्तशचीनाथः कृतशान्त्यर्चनो हि सः ॥ ' शूलबन्धो यथा 'नित्यं कुन्थ्वादिसत्त्वेष्वहिंस्त्र: कुन्थ्वितिसंज्ञकः । करिराजकराकारकरो मामवताज्जिनः ॥' शक्तिबन्धो यथा 'पदं श्रियामराभिख्यो भित्कमरिर्जिनः परः । रदनच्छेदधामोमो मोदायास्तु शिवप्रदः ॥' काव्यानुशासनम् अस्य व्याख्या अराभिख्योऽराभिधानो जिनो मोदायाऽस्तु । कथंभूतः भित्कमरिभिनतीति भित् भेदकः । कस्य । कमरिः कर्मरूपशत्रोः पुनः कथंभूतः । रदनच्छेद-धामोमः रदनच्छेदधामा करिकलभदन्तच्छेदधवला उमा कीर्तिर्यस्य स तादृशः । शेषं संबोधनम् । हलबन्धो यथा 'श्रियं वितनुतां मल्लिसखा जिनमतल्लिका । कामं कुन्दविभोदाररदांशुहततामसः ॥' जिनमतल्लिका जिनप्रधानं तमसां समूहस्तामसम् ॥ छत्रबन्धो यथा 'श्रिये श्रीसुव्रतो देवः श्रितो मुनिभिरस्तु वः । नरामरनमन्मौलिलिह्यमानक्रमो जिनः ॥' पद्मबन्धो यथा

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92