Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 58
________________ चतुर्थोऽध्यायः 'एनश्छिनत्तु न इनः सुनयेन पुनः पुनः । ध्यानज्ञानधनस्थानः स्वनमिर्ध्वनदनः स्वनः ॥' तिष्ठन्त्यस्मिन्निति स्थानः । अधिकरणेऽत्रानप्रत्ययः । ध्यानज्ञानधनस्थानः शब्दायमानशकटस्वनः । अत्र कविनाऽऽत्मशक्त्यतिशयात् गोमूत्रिका चित्रमप्यन्तर्भावितम् । मुरजबन्धो यथा 'नेमिनाथ जिनाविघ्नं शमिनां तनु नाविभ । भविना नुत नागश्रीस्त्वां विनाथ घनागसाम् ॥' व्याख्या हे नेमिनाथ जिन शमिनामविघ्नं विघ्नाभावं तनु । कथम्भूतः । नाविभ न निःप्रभ अपि तु सप्रभ । तथा भविना संसारिणा नुत । भविनेति जातावेकवचनम् । तथा त्वां विना घनागसां घनपपानां पुरुषाणां न अगश्रीर्भवति । न गच्छतीति अगा अविनश्वरेत्यर्थः । अयमभिप्राय:- सपापा अपि पुरुषास्त्वां सेवमानाः पापमुक्तेरगश्रियं लभन्ते । कविनामाङ्कित य कबन्धो यथा 'सर्व कृन्ततु कल्मषं स भवतो वाग्भसितासौहृदः सद्रीतिश्चितविश्वपार्श्वभवहृत्कूटास्थिरोऽमर्महा । १०७ निर्मारः परवारिदप्रभतनुर्यस्य स्फुटा हारभा भात्कीर्तिः सकले सदावनितले दत्तेशहासप्रभा ॥' व्याख्या - भवं हरन्तीति भवहज्जिनः । पार्वाभिधानो । भवहत् पार्श्वजिन इत्यर्थः । सति शोभना रीतिर्यस्य स सद्रीतिः । श्रितं विश्वं जगद्यस्य स श्रितविश्वः । सद्रीतिश्चासौ श्रितविश्वश्च सद्रीतिश्रितविश्वः । स चासौ पार्श्वभवहच्च सद्रीतिश्रितपार्श्वभवहत् भवतः सर्वं कल्मषं कृन्ततु छिन्तु । कथम्भूतः । कूटस्थिरः । कूटं गिरिश्रृङ्गं तद्वत्स्थिरो निश्चलः । पुनः कथम्भूतः । अमर्महा । न मर्माणि हन्तीति अमर्महा । निर्मारी निष्कन्दर्पः । परवारिदप्रभा श्यामवर्णा तनुर्यस्य । पुनः कथम्भूतः । वाग्भत्सितासौहृदः । १०८ (१) खड्गबन्ध प्रापण पो त सन्नि न रू मे निमं (ल) ती थें श कु प्र F E F F FO न काव्यानुशासनम् वा ब्धि पर पा रा न्त FF EYF भव्यानां परमानन्द कन्दोभेदघनाघनः । न्तामरशिरोरत्नविवर्धितनखप्रभः ॥ भवाब्धिपरपारान्तप्रापणपेत्सन्निभः । भर्ता विमलतीर्थेश कुरु मे निर्मलं मनः ॥

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92