Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 51
________________ काव्यानुशासनम् तृतीयोऽध्यायः 'पउरजुवाणो गामो महुमासो जोव्वणं पइ ठूरो । साहीणा जुण्णसुरा असही मा होउ किं मरउ ॥' [छायाः 'प्रचुरयुवा ग्रामो मधुमासो यौवनं पतिः स्थविरः । स्वाधीना जीर्णसुरा असती मा भवतु किं म्रियताम् ॥'] यथा च - 'स्फुरदद्धृतरूपमुत्प्रतापज्वलनं त्वां सृजताऽनवद्यविद्यम् । विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ॥' अनेकेषामेकत्र निबन्धस्त्वन्यः ॥३२॥ यथा'माहिषं दधि सशर्करं पयः कालिदासकविता नवं वयः । शारदेन्दुरबला च कोमला स्वर्गशेषमुपभुञ्जते जनाः ॥' गुणक्रियायां युगपदभिधानमपरः ॥३३॥ यथा'अलसलुलितमुग्धस्निग्धनिस्पन्दमन्दै रधिकविकसदन्तर्विस्मयस्मेरतारः । हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्ष रपहृतमपविद्धं पीतमुन्मूलितं च ॥' पृष्टमपृष्टं वा यदन्यव्यवच्छेदपरतयोच्यते सा परिसङ्ख्या ॥३४॥ यथा'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षों विनयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः ॥' प्रस्तुतार्थप्रसिद्धयै निदर्शनं दृष्टान्तः । साधर्येण वैधhण च ॥३६॥ यथा'महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् । अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमालाः सविशेषसङ्गाः ॥' यथा च'नवाहवे साहसकर्मनर्मणः पाणि कृपाणान्तिकमानिनीषतः । भटाः परेषां विशरारुतामगुर्दधत्यवाते स्थिरतां हि पांसवः ॥' पूर्वपूर्वार्थनिष्ठानामर्थानामुत्तरोत्तरं विधिनिषेधाभ्यां विरचनैकावली ॥३७॥ यथा'पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपतिरस्कृताङ्ग्यः । रूपं समुन्मीलितसद्विलास मस्त्रं विलासः कुसुमायुधस्य ॥ यथा च'न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् । न षट्पदोऽसौ कलगुञ्जितो न यो न गुञ्जितं तन्न जहार यन्मनः ॥' यथा'कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ॥' पूर्वस्योत्तरमुत्तरं प्रति हेतुत्वे कारणमाला ॥३५॥

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92