Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
तृतीयोऽध्यायः
'तस्यास्तीरे रचितशिखर: पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः । मद्गेहिन्याः प्रिय इति सखे ! चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥' यथा च'अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यीचकार । सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥' मिथ्याज्ञानं भ्रान्तिः ॥२७॥
काव्यानुशासनम् 'क्व चायं भूभागः क्व च गगनमेतद् व्यवहितं तथाप्यम्भोराशिविकसति सितांशोः समुदये । वृथा प्रत्यासत्तिः किमु किमपि मृष्यं तदपरं यदत्यन्तं भावान् घटयति विदूरानपि मिथः ॥'
यत्र न केवलं कार्यस्यासिद्धिः किं तु प्रत्युतानर्थश्च तदपि विषमम् ॥२९॥
यथा
यथा'वृक्षश्रेणीछन्नसमस्तान्तरमार्गे रम्योद्याने कालपसूनो भवदीये । मेघभ्रान्त्या भानुकरौघादर्शिनो( ? )मी केकायन्ते मत्तमयूरास्ततबर्हाः ॥' यथा वा'पन्थानमाशु विजहीहि पुरा स्तनौ ते पश्यन् प्रतिद्विरदकुम्भविशङ्किचेताः । स्तम्बेरमः परिणिनं सुरसावुपैति श्रृङ्गैरगद्यत ससम्भ्रममेवमेका ॥' असम्भावितसम्बन्धः कार्याभावेऽनर्थश्च विषमम् ॥२८॥ यत्रासम्भावितस्याघटमानस्यार्थस्य सम्बन्धः क्रियते, तद्विषमम् ।
'प्रणयकुपितां दृष्ट्वा देवीं ससंभ्रमविस्मित स्त्रिभुवनगुरुर्भीत्या सद्यः प्रणामपरो भवान् । नमितशिरसो गङ्गालोके तया चरणाहताववतु भवतस्त्र्यक्षस्यैतद्विलक्षमवस्थितम् ॥' औचित्येनोत्कृष्टापकृष्टयोर्योगः समम् ॥३०॥ उत्कृष्टयोर्यथा'शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जझुकन्याऽवतीर्णा । इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विववुः ॥' निकृष्टयोर्यथा'न खलु वयममुष्य दानयोग्या पिबति च पाति च यासको रहस्त्वाम् । व्रजविटपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ॥'
हेतोर्हेत्वन्तरस्य कार्ये कार्यान्तरस्याभिधानं समुच्चयः ॥३१॥
यथा
यथा

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92