Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 49
________________ तृतीयोऽध्यायः तत्र सदृशव्यतिरेको यथा'त्वन्मुखं पुण्डरीकं च फुल्ले सुरभिगन्धिनी । भ्रमभ्रमरमम्भोज लोलदृष्टिमुखं तु ते ॥' 'विद्युत्त्वन्तं ललितवनिताः सेन्द्रचापं सचित्रा सङ्गीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् । अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥' स्वजातिव्यतिरेको यथा'असम्भृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साऽथ वयः प्रपेदे ॥' सादृश्यात् प्रतिपत्तुः संशयः ससन्देहः । स च केवलो निर्णयान्तश्च ॥२२॥ तत्र केवलो यथा'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः श्रृङ्गारैकरसः स्वयं तु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥' निर्णयगर्भो यथा'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ॥' निर्णयान्तो द्विधाहेतोरुक्तावनुक्तौ च । काव्यानुशासनम् तत्र हेतोरुक्तौ यथा'किं नन्दी किं मुरारि: किमु रतिरमणः किं हरः किं कुबेरः किं वा विद्याधरोऽसौ किमुत सुरपतिः किं नलः किं कुमारः । नायं नायं न चायं न खलु न हि न वा नापि नासौ न चैष क्रीडां कर्तुं प्रवृत्तस्त्वयमिह हि हले भूपतिर्भोजदेवः ॥' प्रकृतस्य सदृशेनापलापोऽपहृतिः ॥२३॥ यथा'बाले नैते पयोदाः सुरपतिकरिणो नावकाः (?) कर्णपूराः, सौदामन्योऽपि नैताः कनकमयमिदं भूषणं वारणानाम् । नैतत्तोयं नभस्तः पतति मदजलं वारिधारावधूतं तत्कि मुग्धे वृथा त्वं मलिनयसि मुखं प्रावृडित्यश्रुपातैः ॥' समेनासमेन वा व्यत्ययः परिवृत्तिः ॥२४॥ निकृष्टेनोत्कृष्टेन वस्तुना व्यत्ययो व्यतिहारः परिवृत्तिः । यथा'लतानामेतासामुदितकुसुमानां मरुदयं निजं लास्यं दत्त्वा श्रयति बहुशो गन्धमसमम् । लतास्त्वध्वन्यानामहह दृशमादाय सहसा ददत्याधिव्याधिभ्रमिरुदितमोहव्यतिकरम् ॥' हेतोरर्थप्रतिपत्तिरनुमानम् ॥२५॥ यथा'सानुज्ञमागमिष्यन्नूनं पतितोऽसि पादयोस्तस्याः । कथमन्यथा ललाटे यावकरसतिलकपङ्क्तिरियम् ॥' सदृशदर्शनात् पूर्वार्थस्मरणं स्मृतिः ॥२६॥ यथा

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92