Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 20
________________ प्रथमोऽध्यायः इन्दिन्दिरान्दोलितमन्दमन्द निष्यन्दनिन्द्यन्मकरन्दवन्द्यम् ॥" बवयोर्डलयोरैक्यम् ॥५५॥ यथा 'पृथुकार्तस्वरपात्रं भूषितनिः शेषपरिजनं देवम् । विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥' यथा च 'नालस्यप्रसरो जडेष्वपि कृतावासस्य कोशे रुचि र्दण्डे कर्कशता मुखे च मृदुता मित्रे महान् प्रश्रयः । आमूलं किल संग्रहव्यसनिता द्वेषश्च दोषाकरे यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥' नानुस्वारविसर्गौ चित्रभङ्गाय ॥५६॥ यथा 'चन्द्रेडितं चटुलितस्वरधीशसाररत्नासनं रभसकल्पितशोकजातम् । पश्यामि पापतिमिरक्षयकारकायमल्पेतरामलतपःकचलोपलोचम् ॥' पापतिमिरक्षयकारकायं पश्यामि इति हारबन्धचित्रम् ॥ ३१ कथंभूतम् । चन्द्रेडितं चन्द्रस्तुतम् । पुनः कथंभूतम् । चटुलितस्वरधीशसाररत्नासनं कम्पितशक्रोत्कृष्टसिंहासनम् । रभसकल्पितशोकजातं निराकृतशोकसमूहम् । पुनः कथंभूतम् । अल्पेतरामलतपःकचलोपलोचं केशापनोददर्शकम् ॥ विसर्गे यथा ३२ 'नित्यं कुन्थ्वादिसत्त्वेष्वहिंस्रः कुंथ्वितिसंज्ञकः । करिराजकराकारकरो मामवताज्जिनः ।' काव्यानुशासनम् त्रिशूलबन्धचित्रं सुबोधम् । शब्दार्थौ निर्दोषौ सगुणौ प्रायः सालङ्कारौ काव्यम् ॥५७॥ दोषगुणालङ्काराणामग्रे प्रपञ्च्यमानत्वान्नात्र विस्तरः । प्राय: सालङ्काराविति निरलङ्कारयोरपि शब्दार्थयोः क्वचित् काव्यत्वख्यापनार्थम् । यथा 'शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । विस्त्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥' तच्च पद्यगद्यमिश्रभेदैस्त्रिधा ॥५८॥ तत्र पद्यं छन्दोबन्धः । स च महाकाव्यादिः । तत्र प्रायः संस्कृत - प्राकृतापभ्रंश-ग्राम्यभाषानिबद्धभिन्नान्त्यवृत्त - सर्गाऽऽश्वासक-सन्ध्यवस्कन्धकबन्धम्, मुखप्रतिमुख-गर्भ-विमर्ष-निर्वहणरूपसन्धिपञ्चकोपेतम्, असंक्षिप्तग्रन्थम्, अविषमबन्धम्, अनतिविस्तीर्णपरस्परसम्बद्धसर्गम्, आशीर्न मस्क्रियावस्तु निर्देशोपक्रमयुतम्, वक्तव्यवस्तुप्रतिज्ञा तत्प्रयोजनोपन्यास- कविप्रशंसासज्जनदुर्जनचिन्तादिवाक्योपेतम्, दुष्करचित्राद्येकसर्गाङ्कि तम्, स्वाभिप्रेतवस्त्वङ्कितसर्गान्तम्, चतुर्वर्गफलोपेतम्, चतुरोदात्तनायकम्, प्रसिद्धनायकचरितम्, नग - नागर-सागरतु

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92