Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
द्वितीयोऽध्यायः
काव्यानुशासनम्
वाक्ये यथा'अनुत्तमानुभावस्य परैरपि हितौजसः । अकार्यसुहृदोऽस्माकमपूर्वाश्चित्तवृत्तयः ॥'
अत्रापकृष्टच्छादितमकार्येषु मित्रपूर्वी यासां ता अकीर्तय इति विरुद्धां बुद्धिमुत्पादयति ॥
लक्षितोऽर्थो यत्र ज्ञायते तन्नेयार्थम् ॥२०॥ पदे यथा'नवकुमुदवनश्रीहासकेलिप्रसङ्गा दधिकरुचिरशेषामप्युषां जागरित्वा । अयमपरदिशोऽङ्के मुञ्चति स्रस्तहस्त: शिशयिषुरिव पाण्डुम्र्लानमात्मानमिन्दुः ॥' अत्र हस्तशब्देन करा लक्ष्यन्ते । तेन च किरणा इति नेयार्थत्वम् । वाक्ये यथा'सपदि पङ्क्तिविहङ्गमनामभृत्तनयसंवलितं बलशालिना । विपुलपर्वतवर्षिशितैः शरैः प्लवगसैन्यमुलूकजिता जितम् ॥' अत्र पङ्क्तिविहङ्गमनामभृद्दशरथः । उलूक: कौशिकस्तेन चेन्द्रशब्दो लक्ष्यते । इन्द्रजितेत्यर्थः ॥ उभयार्थवाचकमप्यप्रसिद्धेऽर्थे प्रयुक्तं निहतार्थम् ॥२१॥ पदे यथा'यावकरसार्द्रपादप्रहारशोणितकचेन दयितेन । मुग्धा साध्वसतरला विलोक्य परिरभ्य चुम्बिता सहसा ॥' अत्र शोणितशब्दो रुधिरे प्रसिद्धः ।
वाक्ये यथासायकसहायबाहोर्मकरध्वजनियमितक्षमाधिपतेः । अब्जरुचिभास्वरस्ते भातिततरामवनिपः श्लोकः ॥' सायकशब्द खड्गपर्यायः शरे प्रसिद्धः । मकरध्वजशब्दो जलधिपर्यायः कन्दर्प प्रसिद्धः । क्षमाशब्दो भूपर्यायः क्षान्तौ प्रसिद्धः । अब्जशब्दश्चन्द्रपर्यायः पद्ये प्रसिद्धः । श्लोकशब्द: कीर्तिपर्यायोऽनुष्ठुभि प्रसिद्धः ।। अप्रतीतमागमादेव प्रसिद्धम् ॥२२॥ पदे यथा'भान्ति धर्मगजालानस्तम्भविभ्रमकारिणः । चतसृष्वपि काष्ठासु मानस्तम्भा महोच्छ्याः ॥' अत्र मानस्तम्भशब्दो जैनागमे प्रसिद्धः । वाक्ये यथा'पञ्चाणुव्रतानि गुणास्त्रयः शिक्षाव्रतानि च । चत्वारि स्युर्गृहस्थानां शुद्धसंपत्कयोगतः ॥' अत्राणुव्रतादीनि जैनागमे प्रसिद्धानि । असौ तु स्वदर्शनोक्तौ विशेषतो गुणः ॥ ग्राम्यमविदग्धजनोक्तिः ॥२३॥ पदे यथा'राकाविभावरीकान्तसंक्रान्तद्युति ते मुखम् । तपनीयशिलाशोभा कटिश्च हरते मनः ॥' अत्र कटिरिति ग्राम्यम् । वाक्ये यथा

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92