Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
द्वितीयोऽध्यायः
विक्लवाद्युक्तौ न दोषः ॥३०॥
यथा
'गाढालिङ्गनवामनीकृतकुचप्रोद्भूतरोमोद्गमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा । मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीनाऽथवा ॥' तद्विनाऽप्यर्थावगमेऽधिकपदम् ॥३१॥
'दलत्कन्दलभाग्भूमिः सनवाम्बुदमम्बरम् । वाप्यः फुल्लाम्बुजयुजो जाता दृष्टिविषं मम ॥ '
अत्र भजिः सशब्दो युजिश्चाधिकः । एतद्विनाप्यर्थावगतेः । यथा च
५७
'बिसकिसलयच्छेदपाथेयवन्तः ' । अत्र 'मत्वर्थीयाद्वरं बहुव्रीहिः ' इति मत्वर्थीयोऽधिकः । पाथेया इति तु युक्तम् ॥ एकस्य पदस्य द्विस्त्रिरभिधानमुक्तपदम् ॥३२॥ 'नैकं पदं द्विः प्रयुञ्जीत' इति कविसमयः । 'सामोपायनयप्रपञ्चपटवः प्रायेण ये भीरवः
शूराणां व्यवसाय एव हि परं संसिद्धये कारणम् । उद्गर्जद्विकटाटवीगजघटापीठैकसंचूर्णन
व्यापारैकरसस्य सन्ति विजये सिंहस्य के मन्त्रिणः ॥'
शब्दः ॥
लाटानुप्रासे गृहीतमुक्तके विहितानुवादे च गुणः ॥३३॥ तत्र लाटानुप्रासे यथा
'चोलः क्रोधं पयोधेर्विशति निविशते रन्ध्रमान्ध्रो गिरीणां कर्णाट: पट्टबन्धं भजति न भजते गुर्जरो निर्भराणि ।
५८.
काव्यानुशासनम्
चेदिर्लीलायतेऽसौ क्षितिपतितिलकः कान्यकुब्जः सकुब्जो भोज त्वत्तन्त्रमात्रप्रसररसभयव्याकुलो राजलोकः ॥' गृहीतमुक्तके यथा
'जयति क्षुण्णतिमिरस्तिमिरान्धकवल्लभः । वल्लवी ( भी ) कृतपूर्वाश: पूर्वाशातिलको रविः ॥' विहितानुवादे यथा
'निर्द्रव्यो ह्रियमेति हीपरिगतः प्रभ्रश्यते तेजसा निस्तेजाः परिभूयते परिभवान्निर्वेदमागच्छति । निर्विण्णः शुचमेति शोकविकलो बुद्ध्या परिभ्रश्यते निर्बुद्धिः क्षयमेत्यहो विधनता सर्वापदामास्पदम् ॥' असंबद्धपदन्यासोऽस्थानपदम् ॥३४॥
यथा
' मा भाङ्क्षीर्विभ्रमं भ्रूरधरविधुरता केयमस्यास्यरागं प्राणे प्राण्येव नायं कलयसि कलहं श्रद्धया किं त्रिशूलम् । इत्युद्यत्कोपकेतून्प्रकृतिमवयवान्प्रापयन्त्येव देव्या
न्यस्तो वो मूर्ध्नि मुख्यान्मरुदसुहृदसून्संहरन्नङ्गिरंहः ॥
अत्र 'वः' इति पदं 'मूर्ध्नि' इतिपदसान्निध्यादस्थाने पतितम् ।
यथा च
'सरभसपरिरम्भारम्भसंरम्भभाजा यदधिनिशमपास्तं वल्लभेनाङ्गनायाः । वसनमपि निशान्ते नेष्यते तत्प्रदातुं रथचरणविशाल श्रोणिलोलेक्षणेन ॥'
अत्र 'वसनम्' इति पदं पूर्वार्धमतिक्रम्याऽस्थाने पतितम् ।
१. तिमिरेऽन्धका अन्धास्तेषां वल्लभः ।

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92