Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 36
________________ काव्यानुशासनम् द्वितीयोऽध्यायः मम तु यदियं जाता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः ॥' अत्र नवेन्दुकलादयो भावा यं प्रति न किञ्चिदिव, स एवोत्कर्षार्थं चन्द्रिकात्वमारोपयतीति व्याहतत्वम् ॥ अविदग्धजनोचितं ग्राम्यम् ॥४९॥ यथा'छादयित्वा सुरान् पुष्पैः पुरो धान्यं क्षिपाम्यहम् ।' व्रीडाव्यञ्जकोऽश्लीलः ॥५०॥ यथा'तस्याः प्रविष्टा नतनाभिरन्धं रराज तन्वी नवरोमराजिः । नीवीमतिक्रम्यसितेतरस्य तन्मेखलामध्यमणेरिवार्चिः ॥' अत्र मध्यमणिशब्देनाश्लीलं व्यज्यते ॥ अवश्यवाच्यार्थहीनः साकाङ्क्षः ॥५१॥ यथा'अथित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत द्रुह्यन्दाशरथिविरुद्धचरितो युद्धस्तया कन्यया । उत्कर्षं च परस्य मानयशसोर्विस्त्रंसनं चात्मनः स्त्रीरत्नं च जगत्पतिर्दशमुखो देवः कथं मष्यते ॥' अत्र स्त्रीरत्नं परस्येत्याकाझ्यते ॥ उभयार्थप्रतिपत्तिकृत् सन्दिग्धम् ॥५२॥ यथा'मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु । सेव्या नितम्बाः किल भूधराणामुत स्मरस्मेरविलासिनीनाम् ॥' अत्र कारणाद्यभावे सन्देहः ॥ क्रमपरिहाराद्यक्रमः ॥५३॥ तुरङ्ग मातङ्गं वा मे प्रयच्छ । रूपकं विंशोपकं वा गृहाण । भुक्त्वा स्नात्वा च देवानञ्चति । साहित्यं लक्षणं चाधीते । शतेनाधिका विंशतिः । सचापं बाणमादत्ते । वैश्यादयो वर्णाः ॥ कारणव्यतिरेकेण पुनरभिधानं पुनरुक्तम् ॥५४॥ यथा'तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥' अनेन्दुरिति पुनरुक्तम् ॥ कारणोक्तौ तु गुणः ॥५५॥ यथा'तव प्रसादात् कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । कुर्यां हरस्यापि पिनाकपाणेधैर्यच्युति के मम धन्विनोऽन्ये ॥' १. "अत्र 'स्त्रीरत्नम्' इत्यर्थः 'उपेक्षितुम्' इत्यस्यार्थमाकाङ्क्षति । अन्यथा 'कथं मृष्यते' इत्यनेनामर्षार्थकनान्वय प्रसङ्गः । नहि स्त्रीरत्नमेवामर्षः, किन्तु तदुपेक्षायाम् । न च 'परस्य' इत्येतदन्तर्भाव्य तदन्वयोऽस्त्विति वाच्यम् । तस्य जनितान्वयबोधत्वेन निराकाङ्क्षत्वात्" इत्यादि काव्यप्रदीपे। १. 'सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः । मार्गणप्रवणो भास्वद्भतिरेष विलोक्यताम् ॥' इति काव्यप्रदीपोदाहरणमेव युक्तं प्रतिभाति ।

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92