Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 34
________________ द्वितीयोऽध्यायः 'नार्धे किञ्चिदसमाप्तम्' इति कविसमयः । तथा 'अपि निशान्ते' इत्यत्रापि 'निशान्तेऽपि' इति युक्तम् ॥ आनुपूर्व्या हीयमानप्रकर्षं पतत्प्रकर्षम् ॥३५॥ यथा'अविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुलः । उद्भिन्ननवश्मश्रुश्रेणिरिव गणाधिपो जयति ॥' समाप्य पुनर्गृहीतं समाप्तपुनरात्तम् ॥३६॥ यथा'गाहाण रसा महिलाण विब्भमा कइप( व )राण वयणाई । कस्स न हरंति हिअअं बालाण य मम्मणुल्लावा ॥' [छायाः 'गाथानां रसा महिलानां विभ्रमाः कविवराणां वचनानि । कस्य न हरन्ति हृदयं बालानां च मन्मनोल्लापाः ॥'] अत्र 'बालाण य मम्मणुल्लावा' इति पदं सन्धितपुच्छप्रायं न स्वदते ॥ विसर्गस्याभावोऽविसर्गत्वम् ॥३७॥ यथा'धीरो विनीतो निपुणो वराकारो नृपोऽत्र सः । यस्य भृत्या बलोसिक्ता भक्ता बुद्धिप्रदायिनः ॥' अत्रोत्वेन लोपेन च विसर्गाभावः ॥ वाक्यान्तरपदैरनुविद्धं संकीर्णम् ॥३८॥ यथा'कायं खायइ छुहिउ क्कूरं व्वल्लोइ निट्ठरं रुट्ठो । सुणयं गिण्हइ कण्ठे हक्केड़ अनत्तियं थेरो ॥' काव्यानुशासनम् [छायाः 'काकं खादति क्षिपति कूरं भाषयति निष्ठुरं रुष्टः । शुनकं गृह्णाति कण्ठे आकारयति.......] अत्र 'काकं क्षिपति, कूरं खादति, श्वानं भषयति, नप्तारं कण्ठे गृह्णाति' इति वक्तुमुचितम् ॥ उक्तिप्रत्युक्तौ गुणः ॥३९॥ यथा'कोऽयं नाथ जिनो भवेत्तव वशी उंहुं प्रतापी प्रिये हुँहुं तर्हि विमुञ्च कातरमते शौर्यावलेपक्रियाम् । मोहोऽनेन विनिर्जितः प्रभुरसौ तत्किराः के वय मित्येवं रतिकामजल्पविषयः सोऽयं जिनः पातु वः ॥' वाक्यान्तरानुप्रवेशो गर्भितम् ॥४०॥ यथा'मार्गे कर्दमदुस्तरे जलभृते गर्ता( ? )शतैराकुले खिन्ने शाकटिके भरेऽतिनिभृते दूरोद्धरे रोधसि । शब्देनैतदहं ब्रवीमि महता कृत्वोच्छ्रितां तर्जनी मीदृक्षे विषमे विहाय धवलं वोढुं क्षमः को भरम् ॥' अत्र तृतीयः पादोऽन्य इव प्रविष्टो लक्ष्यते । प्रक्रमभङ्गो भग्नप्रक्रमत्वम् ॥४०॥ यथा'बभूव भस्मैव कृतारागः कपालमेवामलशेखरश्रीः । उपान्तभागेषु च रोचनाङ्कः सिंहाजिनस्यैव दुकूलभावः ॥' अत्र 'मृगेन्द्रचर्मैव दुकूलमस्य' इति युक्तम् । यथा १. 'बुद्धिप्रभान्विताः' इति काव्यप्रदीपे

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92