Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 35
________________ काव्यानुशासनम् द्वितीयोऽध्यायः 'ते हिमालयमामन्त्र्य पुनः प्राप्य च शूलिनम् ॥ सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ॥' 'अत्र 'अनेन विसृष्टाः' इति युक्तम् । यथा च'पाश्चात्यभागमिह सानुषु सन्निषण्णाः पश्यन्ति शान्तमलसान्द्रतरांशुजालम् । संपूर्णलब्धललनाललनोपमान मुत्सङ्गसङ्गिहरिणस्य मृगाङ्कमूर्तेः ॥' अत्र 'उत्सङ्गसङ्गतमृगस्य मृगाङ्कमूर्तेः' इति युक्तम् ।। अघटमानसम्बन्धोऽनन्वितम् ॥४२॥ यथा'प्रज्ञापुञ्जमयाज्ञानराधावेधस्य कारणम् । धाराया विपरीतस्य नूनं न क्षमते प्रभुः ॥' अत्र वैपरीत्यं शब्दकृतम्, उताऽर्थकृतमित्यनन्वयः ।। द्वयोरपि वाक्ययोः सम्बद्धमर्थान्तरैकवाचकम् ॥४३॥ यथा'उदयमहिमरश्मिर्याति शीतांशुरस्तम् ।' अत्र 'याति' इतिपदमुभयत्रापि संबध्यते ॥ यत्र नेष्टसम्बन्धप्रतिपत्तिस्तदभवन्मतयोगम् ॥४४॥ यथा'चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः । अस्त्येवैतत्किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥' अत्र भार्गवस्य निन्दा तात्पर्यम् । कृतवतेति परशौ प्रतीयते । कृतवत इति तु युक्तम् ॥ कष्टापुष्ट-व्याहत-ग्राम्याश्लील-साकाङ्क्ष-सन्दिग्धाक्रमपुनरुक्तभिन्नसहचर-विरुद्धव्यङ्ग्य-प्रसिद्धिविरुद्ध-विद्याविरुद्ध-निर्हेतवोऽर्थदोषाः ॥४५॥ तत्रदुरवबोधः कष्टः ॥४६॥ यथा'शूलं तूलं तु गाढं प्रहर हर हृषीकेश केशोऽपि वक्र श्चक्रेणाकारि किं ते पविरवति न हि त्वाष्ट्रशत्रोधुराष्ट्रम् । पाकाकेशोऽब्जनालान्यनल न लभसे भातुमित्यात्तदर्पो जल्पन्देवान्दिवौको रिपुरवधि यया साऽस्तु शान्त्यै शिवा वः ॥' प्रकृतानुपयोग्यपुष्टः ॥४७॥ यथा 'अनणुरणन्मणिमेखलमविरतशिञ्जानमञ्जमञ्जीरम् । परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥' अत्र वर्णसावर्ण्यमेव, न वाच्यवैचित्र्यकणिकापि काचिदस्तीत्यपुष्टार्थम् ।। पूर्वापरप्रतिबन्धो व्याहतत्वम् ॥४८॥ यथा'जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिसुभगाः सन्त्येवान्ये मनो मदयन्ति ये । १. "अत्र 'अस्मै' इतीदमाप्रक्रमात् 'तद्विसृष्टाः' इत्यत्रापि 'अनेन विसृष्टाः' इत्येव वाच्यम्" इति काव्यप्रदीपे।

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92