Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 31
________________ द्वितीयोऽध्यायः 'ताम्बूलभृतगल्लोऽयं भल्लं जल्पति मानवः । करोति खादनं पानं सदैव तु यथा तथा ॥' तच्च विदूषकमुग्धादिजल्पिते विशेषतो रम्यम् ॥२४॥ यथा १ फुल्लुक्करं कलमकूरसमं वर्हति जे सिंदुवारविडवा मह वल्लहा । ये गालिदस्स महिसीदहिणो सरिच्छा ते किं च मुद्धवियइल्लपसूणपुंजा ॥' अन्यार्थप्रतिभासनेन [ यत् ] संशयकृत्तत्संदिग्धम् ॥२५॥ पदे यथा 'न संयतस्तस्य बभूव रक्षितु विसर्जयेद्यं सुतजन्महर्षितः । ऋणाभिधानात्स्वयमेव केवलं तदा पितॄणां मुमुचे स बन्धनात् ॥' अत्र 'संयतशब्दो बद्धपर्यायः, उत संयमितपर्यायः' इति संदिग्धम् । वाक्ये यथा 'सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः । मार्गणप्रवणो भास्वद्भूतिरेष विलोक्यताम् ॥' अत्र सुरालयकम्पनमार्गणभूतिशब्दाः सन्दिग्धाः । वक्रोक्तौ गुणः । १. 'पुष्पोत्करं कलमकूरसमं वहन्ति ये सिन्दुवारविटपा मम वल्लभास्ते । ये गालितस्य महिषीदध्नः सदृक्षास्ते किं च मुग्धविचकिलप्रसूनपुञ्जाः ॥' ५४ काव्यानुशासनम् यथा 'अभिधाय तथा तदप्रियं शिशुपालोऽनुशये परं गतः । भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ॥' अत्रानुशयः कोप:, पश्चात्तापश्च । अभिमना निर्भीकमनाः, उत्कण्ठितश्च सरुषः सरोषस्य स शिशुपालो रुषो माननामिति च ॥ इष्टार्थप्रतिपादनाऽक्षममवाचकम् ॥२६॥ पदे यथा 'जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरहंसः । भर्तुर्नृत्यानुकारे जयति निजतनुस्वच्छलावण्यवापी सम्भूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ॥' अत्र दधदित्यर्थे विदधदित्यवाचकम् । विपूर्वो हि दधातिः करोत्यर्थे वर्तते । यदाह 'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते' यथा च ‘उद्गर्जज्जलकुञ्जरेन्द्ररभसास्फालानुबन्धोद्धतः सर्वाः पर्वतकन्दरोदरभुवः कुर्वन् प्रतिध्वानिनीः । उच्चैरुच्चरति ध्वनिः श्रुतिपथोन्माथी यथाऽयं तथा प्रायः प्रेङ्खदसंख्यशङ्खधवला वेलेयमागच्छति ॥' अत्र ध्वनिशब्दो गीतादौ प्रसिद्धः । समुद्रे तु गर्जितमेव ।

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92