Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 29
________________ द्वितीयोऽध्यायः अत्र ह्रादेति श्रुतिकटु । वाक्ये यथा'व्यग्रैरग्रयग्रहेन्दुग्रसनगुरुभरैर्नो समग्रैरुदग्रैः प्रत्यग्रैरीषदुग्रैरुदयगिरिगतो गोगणैर्गौरयन्नगाम् । उद्गाढार्चिर्विलीनामरनगरनगं ग्रावगर्भामिवाह्ला मग्रेऽग्रे यो विधत्ते ग्लपयतु गहनं स ग्रहग्रामणीर्वः ॥' वीररौद्रबीभत्सेषु सिंहादिवर्णनेषु च विशेषतो गुणः ॥ १५ ॥ तत्र वीररौद्रबीभत्सानामुदाहरणं रसाध्याये । सिंहादिवर्णने यथा 'मातङ्गाः ! किमु वल्गितैः किमफलैराडम्बरैर्जम्बुकाः सारंगा ! महिषा ! मदं त्यजत रे शून्येषु शूरा न के । कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारेः शनैः सिंहध्वानिनि हुंकृते स्फुरति यत्तद् गर्जितं गर्जितम् ॥' व्यवहिताऽर्थप्रत्ययजनकं क्लिष्टम् ॥१६॥ पदे यथा 'मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती काञ्चनवप्रभासा । तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्त्वा जलमुल्ललास ॥' वाक्ये यथा 'मानसौक: पतद्यानदेवासनविलोचनः । तमोरिपुविपक्षारिः प्रियं दिशतु वो जिनः ॥ ' झगित्यर्थार्पकत्वे गुणः ॥ १७ ॥ ४९ यथा— 'एतावता नन्वनुमेयशोभि काञ्चीगुणस्थानमनिन्दितायाः । आरोपितं यगिरिशेन पश्चादनन्यनारीकमनीयमङ्कम् ॥' ५० अत्र काञ्चीगुणस्थानं जघनमिति प्रसिद्धम् ॥ यत्र विधातुमर्हः अंशो न प्राधान्येन परामृष्टस्तदविमृष्टविधेयांशम् ॥१८॥ तत्पदे यथा 'स्स्रस्तां नितम्बादवलम्बमानां पुनः पुनः केसरपुष्पकाञ्चीम् । न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ॥' अत्र मौर्वी द्वितीयामिवेति युक्तम् । वाक्ये यथा 'शय्या शाद्वलमासनं शुचि शिला सद्य द्रुमाणामधः शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः । इत्यप्रार्थितसर्वलभ्यविभवे दोषोऽयमेको वने दुष्प्रापानि यत्परार्थघटनाबद्धैर्वृथा स्थीयते ॥ ' अत्र शाद्वलं शय्येति विध्यनुवादौ । विधेयौ यथा 'त्वक् तारवी निवसनं मृगचर्म शय्या गेहं गुहा विपुलपत्रपुटा घटाश्च । काव्यानुशासनम् मूलं दलं च कुसुमं च फलं च भोज्यं पुत्रस्य जातमटवीगृहमेधिनस्ते ॥' विपरीतार्थप्रतिभासकं विरुद्धबुद्धिकृत् ॥१९॥ यथा 'चतुर्मुखमुखाम्भोजवनहंसवधूर्मम । मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥' अत्र मम वधूरिति विरुद्धां बुद्धि जनयति ।

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92