________________
द्वितीयोऽध्यायः
अत्र ह्रादेति श्रुतिकटु ।
वाक्ये यथा'व्यग्रैरग्रयग्रहेन्दुग्रसनगुरुभरैर्नो समग्रैरुदग्रैः प्रत्यग्रैरीषदुग्रैरुदयगिरिगतो गोगणैर्गौरयन्नगाम् । उद्गाढार्चिर्विलीनामरनगरनगं ग्रावगर्भामिवाह्ला मग्रेऽग्रे यो विधत्ते ग्लपयतु गहनं स ग्रहग्रामणीर्वः ॥' वीररौद्रबीभत्सेषु सिंहादिवर्णनेषु च विशेषतो गुणः ॥ १५ ॥ तत्र वीररौद्रबीभत्सानामुदाहरणं रसाध्याये ।
सिंहादिवर्णने यथा
'मातङ्गाः ! किमु वल्गितैः किमफलैराडम्बरैर्जम्बुकाः सारंगा ! महिषा ! मदं त्यजत रे शून्येषु शूरा न के । कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारेः शनैः सिंहध्वानिनि हुंकृते स्फुरति यत्तद् गर्जितं गर्जितम् ॥' व्यवहिताऽर्थप्रत्ययजनकं क्लिष्टम् ॥१६॥
पदे यथा
'मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती काञ्चनवप्रभासा । तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्त्वा जलमुल्ललास ॥'
वाक्ये यथा
'मानसौक: पतद्यानदेवासनविलोचनः । तमोरिपुविपक्षारिः प्रियं दिशतु वो जिनः ॥ '
झगित्यर्थार्पकत्वे गुणः ॥ १७ ॥
४९
यथा—
'एतावता नन्वनुमेयशोभि काञ्चीगुणस्थानमनिन्दितायाः । आरोपितं यगिरिशेन पश्चादनन्यनारीकमनीयमङ्कम् ॥'
५०
अत्र काञ्चीगुणस्थानं जघनमिति प्रसिद्धम् ॥
यत्र विधातुमर्हः अंशो न प्राधान्येन परामृष्टस्तदविमृष्टविधेयांशम् ॥१८॥
तत्पदे यथा
'स्स्रस्तां नितम्बादवलम्बमानां पुनः पुनः केसरपुष्पकाञ्चीम् । न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ॥' अत्र मौर्वी द्वितीयामिवेति युक्तम् ।
वाक्ये यथा
'शय्या शाद्वलमासनं शुचि शिला सद्य द्रुमाणामधः शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः । इत्यप्रार्थितसर्वलभ्यविभवे दोषोऽयमेको वने दुष्प्रापानि यत्परार्थघटनाबद्धैर्वृथा स्थीयते ॥ ' अत्र शाद्वलं शय्येति विध्यनुवादौ । विधेयौ यथा
'त्वक् तारवी निवसनं मृगचर्म शय्या गेहं गुहा विपुलपत्रपुटा घटाश्च ।
काव्यानुशासनम्
मूलं दलं च कुसुमं च फलं च भोज्यं पुत्रस्य जातमटवीगृहमेधिनस्ते ॥'
विपरीतार्थप्रतिभासकं विरुद्धबुद्धिकृत् ॥१९॥
यथा
'चतुर्मुखमुखाम्भोजवनहंसवधूर्मम । मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥'
अत्र मम वधूरिति विरुद्धां बुद्धि जनयति ।