________________
द्वितीयोऽध्यायः
अत्र दैवतशब्दः पुंलिङ्गे कथितोऽप्यप्रयुक्तः । सहस्रगुरित्यादित्य इत्यपि अप्रयुक्तम् ॥
देश्यानां प्राकृताद्युक्तौ मुग्धोक्तौ च न दोषः ॥९॥
तत्र प्राकृते यथा—
'जुन्हा ऊरियको सकंति धवले सव्वंगगंधुक्कडे णिव्विग्धं घरदीहियासु सरसं बेंबंत ओमासलम् । आसाए इसुमंजुगुंजियरवो तिंगिछिपाणासवं उम्मिल्लन्तदलावलीपरिंगऊ चंदुज्जए छप्पड || ' अत्र तिगिछि मकरन्द इति देश्यः ।
मुग्धोक्तौ यथा
'देव स्वस्ति वयं द्विजास्तत इतः स्नानेन निष्कल्मषाः कालिन्दीसुरसिन्धुसङ्गपयसि स्नातुं समीहामहे । तद्याचेमहि सप्तविष्टपशुचीभावैकतानव्रतं संयच्छस्व यशः सितासितपयोभेदाद्विवेकोऽस्तु नः ॥' अत्र स्वस्तीति मुग्धस्यैव ब्राह्मणस्योक्तौ न दोषः || श्लेषे चाप्रयुक्तमपि प्रयोक्तव्यं न दोषः ॥१०॥
यथा—
'येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्वोवृत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् ॥ यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामाऽमराः सोऽव्यादिष्टभुजङ्गहारवलयस्त्वां सर्वदो माधवः ॥ ' तदर्थप्रतिपादनाऽक्षममसमर्थम् ॥११॥
तत्पदे यथा
'राजेन्द्र भवतः कीर्तिश्चतुरो हन्ति वारिधीन्' ।
४७
४८
अत्र हन्तीति पदं गमनार्थे पठितमपि प्रतिपादनायाऽसमर्थम् । वाक्ये यथा
'नद्यां हत्वा वस्त्रं धावतीति' ।
अत्र हन्तिशब्दो व्याख्यातः ।
धावतीति शुद्ध्यर्थे पठितमपि तत्प्रतिपादनायाऽसमर्थम् ॥ अनौचित्येन प्रयुक्तमनुचितार्थम् ॥१२॥
पदे यथा
'यः प्राप निर्वृतिं क्लेशाननुभूय भवार्णवे । तस्मै विश्वैकमित्राय त्रिधा नाभिभुवे नमः ॥' अत्र क्लेशाननुभूयेति जिनपतिं प्रत्यनुचितम् । वाक्ये यथा
काव्यानुशासनम्
'सा जयइ कूडवरडो सिद्धनरिंदो धराड़ सयला । इच्छित्तणरायवंसे एकच्छत्तं कयं जेण ॥'
तच्च निन्दायां प्रोत्साहने च न दुष्टम् ॥१३॥
यथा
'चतुरसखीजनवचनैरतिवाहितवासरा विनोदेन । निशि चण्डाल इवायं मारयति वियोगिनीश्चन्द्रः ॥' प्रोत्साहने यथा
'विशन्तु वृष्णयः सर्वे रुद्रा इव महौजसः ॥' परुषवर्णं (यथा) श्रुतिकटु ॥१४॥ पदे यथा
'नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् । नवरसरुचिरां निर्वृतिमादधती भारती कवेर्जयति ॥ ' १. निर्मितिम् इति मूलपाठः ।