________________
४६
द्वितीयोऽध्यायः
अयं च सर्वः प्रपञ्चः श्रीवाग्भटाभिधानस्वोपज्ञच्छन्दोनशासने प्रपञ्चित इति नात्रोच्यते ॥
अनुकरणे न दोषः ॥५॥ 'नृपाभिषेके मदविह्वलाया हस्ताच्च्युतो हेमघटोऽबलायाः । सोपानपङ्क्त्यां पतितः करोति ठ ठ ठ ठ ठ ठ ठ ठ ठ ठं ठः ॥'
वीडाव्यञ्जकममङ्गलव्यञ्जकं जुगुप्साव्यञ्जकं चेति त्रिधाऽश्लीलम् ॥६॥
तत्र त्रीण्यनुक्रमेण पदे यथा'मनीषिताः सन्ति गृहेऽपि देवता स्तपः क्व वत्से क्व च तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥' दग्धोत्तीर्णसुवर्णवर्णरुचिरच्छायं वसानोऽम्बरं भास्वत्कौस्तुभकान्तिकर्बुरतरभ्राजिष्णु वक्षःस्थलम् । शङ्ख चक्रमसिं गदामविरतं बिभ्रच्चतुर्भिः करै रारूढो गरुडं नवीनजलदश्यामो हरिः पातु वः ॥' 'प्रासादानामुपरि वलभीजालवातायनेषु भ्रान्त्यावृत्तः परिणतसुरागन्धसम्भारगर्भः । माल्यामोदी मुहुरुपचितः स्फारकर्पूरवासो वायुयूंनामभिमतवधूसन्निधानं व्यनक्ति ॥' अत्र पेलव-दग्ध-वायुशब्दाः क्रमेण व्रीडाऽमङ्गलजुगुप्साव्यञ्जकाः । त्रीण्यप्यनुक्रमेण वाक्ये यथा'भूपतेरुपसर्पन्ती कम्पना वामलोचना । तत्तत्प्रहणनोत्साहवती मोहनमादधौ ॥'
काव्यानुशासनम् 'पितृवसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे । भवति सपदि पावकान्वये हृदयमशेषितशोकशल्यकम् ॥' 'ये विमुच्यापि वाञ्छन्ति भोगान् जैनव्रतस्थिताः । छदितं ते समश्नन्ति विष्ठामपि कुबुद्धयः ॥'
अत्रोपसर्पणप्रहणनमोहनशब्दास्तथा पितृवसतिपावकाशेषितशल्यशब्दाश्छर्दितविष्ठादिशब्दाश्च व्रीडाऽमङ्गलजुगुप्साव्यञ्जकाः ।।
शान्तविदूषकाद्युक्तौ न दोषः ॥७॥ शान्तोक्तौ यथा'उत्तानोच्छूनमण्डूकपाटितोदरसन्निभे । क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते ॥" एवमन्यदपि ॥ कविभिरनादृतत्वादप्रयुक्तम् ॥८॥ यथा'शीते चोष्णपटी न चाग्निशकटी नापि द्वितीयापटी जीर्णा पर्णकुटी न तन्दुलपुटी भूमौ च घृष्टा कटी । वृत्ति रभटी प्रिया न गुमुटी सौख्यं न चैका घटी भूयाद्भूप तव प्रसादकरटी भक्तुं ममापत्तटी ॥' अत्र गुमुटीति देश्यत्वादप्रयुक्तम् । यदाह'प्रकृतिप्रत्ययमूला व्युत्पत्तिर्यस्य नास्ति देश्यस्य । तन्मडहादि कथञ्चिन्न रूढिरिति संस्कृते रचयेत् ॥' वाक्ये यथा'धत्ते तेजोभिराधिक्यं दैवतोऽयं सहस्रगुः' ।