________________
४३
काव्यानुशासनम्
द्वितीयोऽध्यायः
अत्र कुरङ्गेक्षणेत्येकवचनात् दृशामिति बहुवचनं निरर्थकम् । वाक्ये यथा'बल्यरिक्रत्वरी पातां साम्बुव्यम्बुघनोपमौ ।। सदृशौ काकबकाभ्यां च वै हि तु च वै हि तु ॥' शब्दानुशासनच्छन्दोऽनुशासनादिलक्षणरहितं निर्लक्षणम् ॥४॥ शब्दानुशासनरहितं पदं यथा माघस्य 'संमूर्च्छदुच्छृङ्खलशङ्खनिःस्वनः स्वनुप्रयाते पटहस्य शाङ्गिणि । सत्त्वानि निन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीभृताम् ॥' अत्र 'द्वयेषाम्' इति न प्राप्नोति । द्वयानामिति भवति । कालिदासस्य यथा'दिशि मन्दायते तेजो दक्षिणस्यां खेरपि । तस्यामेव रघोः पाण्ड्याः प्रतापं न विहिरे ॥' अत्र पाण्ड्या इति बहुवचने तद्धितप्रत्ययलोपे पाण्डव इति प्राप्नोति । तथा'तेनाभिघातरभसस्य विकृष्य पत्त्री वन्द्यस्य नेत्रविवरे महिषस्य मुक्तः । निभिन्नविग्रहमशोणितलिप्तगात्रस्तं पातयां प्रथममास पपात पश्चात् । अत्र पातयामासेति अव्यवधाने प्रयोगः प्राप्नोति । भारवेर्यथा'उन्मज्यच्छफर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः ।
गाण्डीवी कनकशिलानिभं भुजाभ्या माजघ्ने विषमविलोचनस्य वक्षः ॥' अत्र आजघ्ने इति आत्मनेपदं न प्राप्नोति । हन्तेः स्वाङ्गकर्मकत्वाभावात् । त्रिविक्रमस्य यथा'सरित इव गावः पीवरोधसः' । अत्र पीवरोध्य इति प्राप्नोति । शीताया यथा'मा भैः शशाङ्क मम सीधुनि नास्ति राहुः
खे रोहिणि वसति कातर किं बभाषे । प्रायो विदग्धवनिता नवसंगमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम् ॥' अत्र मा भैषीरिति प्राप्नोति । वाक्ये यथा'प्रदत्तं नैव यैः स्वीयविभवस्फीतमानतः । तपो न तपितं किंचित्तेषां जन्मस्य किं फलम् ॥'
अत्र प्रदत्तस्थाने प्रत्तमिति, स्वीयस्थाने स्वकीयमिति, स्फीतस्थाने स्फातिरिति, तपितस्थाने तप्तमिति, जन्मस्येति स्थाने जन्मन इति प्राप्नोति ।
छन्दोऽनुशासनलक्षणरहितं पदे यथा'कुरङ्गाक्षीणां गण्डतलफलके स्वेदविसरः' इति शिखरिणीछन्दसि षष्ठे यतिर्या नियता सा नास्ति । वाक्ये यथा'अपि पश्यसि सौधमाश्रितामविरलसुमनोमालभारिणीम्' । अत्र वैतालीयसमपादे षड्लघवो निरन्तरा न स्युः ।