________________
द्वितीयोऽध्यायः
'ताम्बूलभृतगल्लोऽयं भल्लं जल्पति मानवः । करोति खादनं पानं सदैव तु यथा तथा ॥'
तच्च विदूषकमुग्धादिजल्पिते विशेषतो रम्यम् ॥२४॥
यथा
१ फुल्लुक्करं कलमकूरसमं वर्हति
जे सिंदुवारविडवा मह वल्लहा ।
ये गालिदस्स महिसीदहिणो सरिच्छा
ते किं च मुद्धवियइल्लपसूणपुंजा ॥'
अन्यार्थप्रतिभासनेन [ यत् ] संशयकृत्तत्संदिग्धम् ॥२५॥
पदे यथा
'न संयतस्तस्य बभूव रक्षितु विसर्जयेद्यं सुतजन्महर्षितः । ऋणाभिधानात्स्वयमेव केवलं तदा पितॄणां मुमुचे स बन्धनात् ॥'
अत्र 'संयतशब्दो बद्धपर्यायः, उत संयमितपर्यायः' इति संदिग्धम् ।
वाक्ये यथा
'सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः । मार्गणप्रवणो भास्वद्भूतिरेष विलोक्यताम् ॥' अत्र सुरालयकम्पनमार्गणभूतिशब्दाः सन्दिग्धाः । वक्रोक्तौ गुणः ।
१. 'पुष्पोत्करं कलमकूरसमं वहन्ति ये सिन्दुवारविटपा मम वल्लभास्ते ।
ये गालितस्य महिषीदध्नः सदृक्षास्ते किं च मुग्धविचकिलप्रसूनपुञ्जाः ॥'
५४
काव्यानुशासनम्
यथा
'अभिधाय तथा तदप्रियं शिशुपालोऽनुशये परं गतः । भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ॥'
अत्रानुशयः कोप:, पश्चात्तापश्च ।
अभिमना निर्भीकमनाः, उत्कण्ठितश्च सरुषः सरोषस्य स शिशुपालो रुषो माननामिति च ॥
इष्टार्थप्रतिपादनाऽक्षममवाचकम् ॥२६॥
पदे यथा
'जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरहंसः । भर्तुर्नृत्यानुकारे जयति निजतनुस्वच्छलावण्यवापी सम्भूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ॥'
अत्र दधदित्यर्थे विदधदित्यवाचकम् ।
विपूर्वो हि दधातिः करोत्यर्थे वर्तते ।
यदाह
'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते'
यथा च
‘उद्गर्जज्जलकुञ्जरेन्द्ररभसास्फालानुबन्धोद्धतः सर्वाः पर्वतकन्दरोदरभुवः कुर्वन् प्रतिध्वानिनीः । उच्चैरुच्चरति ध्वनिः श्रुतिपथोन्माथी यथाऽयं तथा प्रायः प्रेङ्खदसंख्यशङ्खधवला वेलेयमागच्छति ॥' अत्र ध्वनिशब्दो गीतादौ प्रसिद्धः । समुद्रे तु गर्जितमेव ।