________________
द्वितीयोऽध्यायः
५५
काव्यानुशासनम्
यदाह'ध्वनितं मृदङ्गादिषु, गर्जितं मेघसमुद्रादिषु, रणितं वलयादिषु, क्वणितं वीणादिषु, शिञ्जितं नूपुरादिषु, मणितं सुरतादिषु, कूजितं विहङ्गादिषु, बृंहितं वारणेषु, हेषितं हयेषु, आरवः पटहेषु, ढेत्कृतं वृषभेषु, वो मण्डूकेषु, नादः सिंहेषु, फूत्कार: सर्पेषु, बूत्कार: कपिषु, घूत्कारो घूकेषु, चटत्कारोऽग्निस्फुलिङ्गेषु, कटत्कारो भङ्गेषु, सूत्कारः सायकेषु, गुञ्जाकारो भृङ्गेषु, घमघमारवो घर्घरेषु, भाङ्कारो भेरीषु, केकारवः कलापिषु, सीत्कार: कामिनीषु, झङ्कारः किङ्किणीषु, टङ्कारो मौर्वीषु, भात्कारो झल्लरीषु, घोषो नदीवीचिषु प्रसिद्धो नान्यत्र ।' तद्यथा प्रसिद्धं तत्तथैव बघ्नीयात् । अन्यथा त्ववाचकत्वदोषः । वाक्ये यथा'विभजन्ते न ये भूपमालभन्ते न ते श्रियम् । आवहन्ते न ते दुःखं प्रस्मरन्ति न ये प्रियाम् ॥' अत्र विपूर्वो भजिविभागे, न सेवने । आङ्यूर्वो लभिविनाशे, न प्रापणे । आङ्यूर्वो वहि: करोत्यर्थे, न धारणे । प्रपूर्वः स्मरतिविस्मरणेऽर्थे, न तु स्मरणे इति ॥
'न्यूनपदाधिक पदोक्त पदाऽस्थानस्थपद-पतत्प्रकर्षसमाप्तपुनरात्ताविसर्ग-संकीर्ण-गर्भितभग्नप्रक्रमानन्वितार्थान्तरैकवाचकाभवन्मतयो योगादयो वाक्यदोषाः ॥२७॥
तत्रविश्लेषेऽश्लीलत्वे कष्टत्वे च सन्धिवैरूप्यं विसन्धिः ॥२८॥
विश्लेषे यथा'राजन् विभान्ति भवतश्चरितानि तानि इन्दोर्तुतिं दधति यानि रसातलान्तः । धीदोर्बले अतितते उचितार्थवृत्ती आतन्वती विजयसम्पदमत्र भातः ॥' अश्लीलत्वे यथा'विरेचकमिदं नृत्तमाचार्याभासयोजितम् । चकाशे पनसप्रायैः पुरीषण्डमहाद्रुमैः ॥' अत्र विरेचकशेपपुरीषशब्दा अश्लीलाः । कष्टत्वे यथा'उर्व्यसावत्र तर्वालीमर्वन्ते चार्ववस्थितिः । नाबर्जु युज्यते गन्तुं शिरो नमय तन्मनाक् ॥' अवश्य-वाच्यस्याऽनभिधाने न्यूनपदम् ॥२९॥
यथा
'अन्येषु जन्तुषु रजस्तमसावृतेषु विश्वस्य धातरि समः परमेश्वरेऽपि । सोऽयं प्रसिद्धविभवः खलु चित्तजन्मा मा लज्जया तव कथञ्चिदपह्नुतिर्भूत् ॥' विश्वस्य धातरीत्यत्र चशब्दो युज्यते । स नास्तीति न्यूनपदत्वम् । 'परमेश्वरे च' इति तु पाठे युक्तम् ।
तथाऽत्रैव 'मा लज्जया तव कथञ्चिदपहृतिर्भूत्' इत्यत्र स्वाभिप्रायस्येति न्यूनम् ॥
१. "विसंधि' इति पाठ आदौ त्रुटितो भवेत् ।