Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 25
________________ प्रथमोऽध्यायः हास्यप्रायं प्रेरणं तु स्यात् प्रहेलिकयान्वितम् । सख्याः समक्षं पत्युर्यदुद्धृतं नृत्तमुच्यते । मसृणं च क्वचिद्धूर्तचरितं शिङ्गकस्तु सः । ऋतुवर्णनसंयुक्तं रामाक्रीडं तु भाष्यते ॥ मण्डलेन तु यन्नृत्तं हल्लीसकमिति स्मृतम् । एकसूत्रं तु नेता स्याद्गोपस्त्रीणां यथा हरिः ॥ यस्मिन्कुलाङ्गना पत्युः सख्यग्रे वर्णयेद्गुणान् । उपालम्भं च कुरुते गेये श्रीगदितं तु तत् ॥ अनेकनर्तकीयोज्यं चित्रताललयान्वितम् । आचतुः षष्ठियुगला द्रासकं मसृणोद्धते ॥ गोष्ठे यत्र विहरतश्चेष्टितमिह कैटभद्विषः किञ्चित् । रिष्टासुरप्रमथनप्रभृति तदिच्छन्ति गोष्ठीति ॥ ' धीरप्रशान्तनायकोपेता गद्येन पद्येन वा सर्वभाषानुविद्धा ४१ कथा ॥६६॥ आख्यायिकावन्न स्वचरितव्यावर्णकोऽपि तु धीरशान्तो नायकः । तस्य तु वृत्तमन्येन कविना यत्र वर्ण्यते सा काचिद्गद्यमयी कादम्बरीवत् । काचित्पद्यमयी लीलावतीवत् । सर्वभाषानुविद्धा संस्कृतप्राकृतेन मागध्या सौरसैन्या शच्या अपभ्रंशेन वा रचिता कथा || गद्यपद्यमयी साङ्का सोच्छ्वासा चम्पूः ॥६८॥ यान्यङ्कानि स्वनाम्ना परनाम्ना वा करोति कविः तैर्युक्ता उच्छासनिबद्धा चम्पू: । यथा वासवदत्ता दमयन्ती वा ॥ इति महाकविश्रीवाग्भट्टविरचितायामलङ्कारतिलकाभिधानस्वोपज्ञकाव्यानुशासनवृत्तौ प्रथमोऽध्यायः । द्वितीयोऽध्यायः 'निर्दोषौ शब्दार्थों काव्यम्' इत्युक्तम् । तत्र शब्ददोषानाहनिरर्थक - निर्लक्षणाश्लीलाप्रयुक्तासमर्थानुचितार्थ - श्रुतिकटु-क्लिष्टाविमृष्टविधेयांश विरुद्धबुद्धिकृन्नेयार्थ - निहतार्थाप्रतीतग्राम्य-संदिग्धावाचकत्वानि शब्द - दोषाः पदे वाक्ये च भवन्ति ॥१॥ तत्र प्रकृतानुपयोगि निरर्थकम् ॥२॥ पदे यथा 'उत्फुल्लकमलकेसरपरागगौरद्युते मम हि गौरि । अभिवाञ्छितं प्रसिद्ध्यतु भगवति युष्मत्प्रसादेन ॥' अत्र हि शब्दो निरर्थकः । पादैकदेशोऽपि पदमेव । तन्निरर्थकत्वमुदाह्रियते । यथा 'आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासितप्रोत्सर्पद्विरहानलेन च ततः सन्तापितानां दृशाम् । संप्रत्येव निषेकमश्रपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥'

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92