Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
प्रथमोऽध्यायः
यद्यायोगे कार्यं ये पुरुषा वृत्तयो रसाश्चैव । ईहामृगेऽपि यत् स्यात् केवलमत्र स्त्रियो योगः ॥' (उत्सृष्टिकाङ्कस्तु-) 'वक्ष्याम्यतःपरमहं लक्षणमुत्सृष्टिकाङ्कस्य प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात् ॥ दिव्यपुरुषैवियुक्तः शेषैरन्यैर्भवेत्युम्भिः । करुणरसप्रायकृतो निवृत्तयुद्धोद्धतप्रहारश्च ॥ स्त्रीपरिदेवितबहुलो निर्देवितभाषितश्चैव ॥ नानाव्याकुलचेष्टः सात्वत्यारभटिकैशिकीहीनः ॥ कार्यः काव्यविधिज्ञैः सततं ह्यत्सृष्टिकाङ्कस्तु ॥' (व्यायोगस्तु-) व्यायोगस्तु विधिज्ञैः कार्यः प्रख्यातनायकशरीरः । अल्पस्त्रीजनयुक्तस्त्वेकाहकृतस्तथा चैव ॥ बहवश्च तत्र पुरुषा व्यायच्छन्ते यथा समवकारे । न तु तत्प्रमाणयुक्तः कार्यस्त्वेकाङ्क एवायम् । न च दिव्यनायककृतः कार्यो राजर्षिनायकनिबद्धः । युद्धनियुद्धाधर्षणसंघर्षकृतश्च कर्तव्यः ॥ एवंविधस्तु कार्यो व्यायोगो दीप्तकाव्यरसयोनिः ॥ (वीथी तु-) सर्वरसलक्षणाढ्या युक्ता ह्यङ्गैस्त्रयोदशभिः । वीथी स्यादेकाङ्का तथैकहार्या द्विहार्या वा ॥' (नाटकभेदान्नाटिका ।) यदाह
काव्यानुशासनम् 'प्रकरणनाटकभेदादुत्पाद्यं वस्तु नायकं नृपतिम् । अन्तःपुरसंगीतककन्यामधिकृत्य कर्तव्या ॥ स्त्रीप्रायो चतुरङ्गा ललिताभिनयात्मका सुविहिताङ्गी । बहुनृत्यगीतवाद्या रतिसम्भोगात्मिका चैव । राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता । नायकदेवीदूतीसपरिजना नाटिका ज्ञेया ॥' एवं प्रकरणभेदात् प्रकरणिकापि विज्ञेया । सट्टकोऽपि कैश्चिदुक्तः। तद्यथा'विष्कम्भकस्त्वेकरहितो यस्त्वेकभाषया भवति । अप्राकृतसंस्कृतया स सट्टको नाटिकाप्रतिमः ॥' गेयं विभजते
डोम्बिका-भाण-प्रस्थान-भाणिका-प्रेरण-शिङ्गक-रामाक्रीड-हल्लीसक-श्रीगदित-रासक-गोष्ठीप्रभृतीनि गेयानि ॥६५॥
पदार्थाभिनयस्वभावानि डोम्बिकादीनि गेयानि रूपकाणि चिरन्तनैरुक्तानि ।
तद्यथा'छन्नानुरागगर्भाभिरुक्तिभिर्यत्र भूपतेः । आवय॑ते मनः सा तु मसृणा डोम्बिका मता ॥ नृसिंहशूकरादीनां वर्णनं जल्पयेद्यतः । नर्तकी तेन भाणः स्यादुद्धताङ्गप्रवर्तितः । गजादीनां गति तुल्यां कृत्वा प्रसवनं तथा । अल्पविद्धं सुमसृणं तत् प्रस्थानं प्रचक्षते ॥ बालकीडानियुद्धादि तथा शूकरसिंहजा । धवलादिकृता क्रीडा यत्र सा भाणिका मता ॥

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92