Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 22
________________ प्रथमोऽध्यायः 'नव्यनव्यक्रमासाद्यानुक्षणं यस्य सूक्तयः । प्रभवन्ति प्रमोदाय कालिदासः स सत्कविः ॥' सुजनदुर्जनचिन्ता यथा नेमिनिर्वाणे'गुणप्रतीतिः सुजनाज्जनस्य दोषेष्ववज्ञा खलजल्पितेषु । अतः सतो नाप्यसतो निवृत्तिविशेषशाली भवति प्रयत्नः ॥' दुष्करसर्गा( चित्रा )द्यङ्कितैकसर्गत्वमिति । यथा-शिशुपालवधे एकोनविंशतितमः सर्गः । स्वाभिप्रेतवस्त्वङ्कितसर्गान्तमिति । यथाशिशुपालवधः थ्रयङ्कः, विष्णुजयो विष्ण्वङ्कः, किरातार्जुनीयं लक्ष्म्यङ्कम् । चतुर्वर्गफलोपेतमिति । चत्वारो वर्गा धर्मार्थकामलक्षणव्यस्ताः समस्ता वा तत्फलसंयुक्तम् । चतुरोदात्तनायकमिति । यथा शिशुपालवधे विष्णुः । नेमिनिर्वाणे नेमिः । प्रसिद्धनायकचरितमिति । अनेन प्रकरणादिवत् स्वकल्पितकथावस्तुनिषेधः । नगनगरेत्यादि । तत्र नगवर्णनं किरातार्जुनीयकुमारसम्भवादौ । नगरवर्णनं शिशुपालवधनेमिनिर्वाणादौ । अर्णववर्णनं सेतुबन्धनेमिनिर्वाणादौ । ऋतुवर्णनं रघुवंशहरिवंश-शिशुपालवधादौ । चन्द्रोदयास्तसमयवर्णनं शिशुपालवधचन्द्रप्रभचरितादौ । उद्यानजलकेलिमधुपानवर्णनं नेमिनिर्वाणराजीमतीपरित्यागादौ । मन्त्रदूतसैन्यावासप्रयाणाजिवर्णनं शिशुपालवधविष्णुविजयादौ । नायकाभ्युदयवर्णनं विष्णुविजयनेमिनिर्वाणादौ । विवाहवर्णनं कुमारसम्भवादौ । विप्रलम्भवर्णनं राजीमतीपरित्यागादौ । आश्रमवर्णनं रघुवंशादौ । नदी-वर्णनं मेघदूतादौ। तत्रैकेन छन्दसा मुक्तकम् । द्वाभ्यां युग्मं सन्दानितकं च । त्रिभिर्विशेषकम् । चतुर्भिः कलापकम् । द्वादशान्तैः कुलकम् ॥६०॥ सुबोधम् । गद्यमपादः पदसंतानच्छन्दोरहितो वाक्यसंदर्भः ॥१॥ काव्यानुशासनम् तत्र नायिकाख्यातस्ववृत्तान्ता भाव्यर्थशंसिनी सोच्छ्वासा कन्यकापहारसमागमाभ्युदयभूषिता मित्रादिमुखाख्यातवृत्तान्ता अन्तरान्तराप्रविरलपद्यबन्धा आख्यायिका ॥६२॥ तत्रेति । गद्ये । आख्यायिका हर्षचरितादिः । शेषं सुबोधम् । गद्यपद्यमयं मिश्रम् ॥६३॥ तत्र नाटक-प्रकरण-भाण-प्रहसन-डिम-समवकारेहा मृगोत्सृष्टिकाङ्क-व्यायोग-वीथी-रूपाण्यभिनेयानि ॥६४॥ तत्रेति । मिश्रे । नाटकादीनि दशरूपकाणि । अभिनेयानि । तेषां च १ भरतमुनिमोपदर्शितलक्षणमुपदिश्यते । यथा 'प्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकं चैव । राजर्षिवंश्यचरितं तथा च दिव्याश्रयोपेतम् ॥ नानाविभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्चापि । अङ्कप्रवेशकाढ्यं भवति च तन्नाटकं नाम ॥' (प्रकरणं तु-) 'यत्र कविरात्मशक्त्या वस्तु शरीरं च नायकं चैव । औत्पत्तिकं प्रकुरुते प्रकरणमिति तद्बुधैर्जेयम् ॥ यदनार्षमनाहार्य काव्यं प्रकरोत्यभूतगुणयुक्तम् । उत्पन्नबीजवस्तु प्रकरणमिति तदपि विज्ञेयम् ॥ यन्नाटके मयोक्तं वस्तु शरीरं च वृत्तिभेदाश्च । तत्प्रकरणेऽपि योज्यं सलक्षणं सर्वसन्धिषु तु ॥ १. नाट्यशास्त्रेऽष्टादशाध्याये । २. 'यदनर्थमपाहाय' 'यदनायकहार्यकार्यम्' इति नाट्यशास्त्रे. ३. 'कुरुते प्रभूत' नाट्य०.

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92