Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 19
________________ प्रथमोऽध्यायः 'तं चेद्वायौ वहति सरलस्कन्धसंघट्टजन्मा बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः । अर्हस्येनं शमयितुमलं वारिधारासहस्त्र रापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥' आदिशब्दात्पादत्रयोपजीवनमपि युज्यते, परं तत्प्रकटचौर्यमिति नोपदिष्टम् । उक्त्युपजीवनं यथा 'कैवर्तकर्कशकरग्रहणच्युतोऽपि जाले पुनर्निपतितः शफरो वराकः । जालात्पुनर्निगलितो गलितो बकेन वामे विधौ बत कुतो व्यसनान्निवृत्तिः ॥' यथा च 'छित्त्वा पाशमपास्य कूटरचनां भङ्क्त्वा बलाद्वागुरां प्रान्तेषु ज्वलदग्निजालजटिलान्निर्गत्य दूरं वनात् । व्याधानां शरगोचरादतिजवेनोत्प्लुत्य यावन्मृगः कूपान्तः पतितः करोतु विगुणे किंवा विधौ पौरुषम् ॥' समस्यापूरणं त्वनेकधा भवति । पादसमस्या यथा 'समुद्राद्धूलिरुत्थिता' इति चतुर्थः पादः । अत्र क्रमशस्त्रयः पादाः यथा 'अगस्तिहस्तविन्यस्तनिपीतसकलाम्भसः । अधः फणीन्द्रफूत्कारैः समुद्राद्धूलिरुत्थिता ॥ ' पादद्वयसमस्या यथा २९ ३० 'स्तनावालोक्य तन्वङ्ग्याः शिरः कम्पयते युवा ।' इति पूर्वार्धम् । ' तयोरन्तर्विनिर्मग्नां दृष्टिमुत्पाटयन्निव ॥' इत्युत्तरार्धम् । पादत्रयसमस्या यथा 'गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसन्धेः सद्यः कृत्तद्विरददशनच्छेदगौरस्य तस्य । कैलासस्यादिमजिनपतिं प्रार्थयेऽस्त्रं विमुक्त्यै याचा मोघा वरमधिगुणे नाधमे लब्धकामा ॥' इति मेघदूतकाव्यस्य पादत्रयं तृतीयपादेन सङ्कलितम् । यथा च 'छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैः प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । योऽयं नेमेः सदनमचलः प्रीतये यत्र ते स्या च्छीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥' पादपरिवृत्तिर्यथा— 'वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ।' तथा 'वाण्यर्थाविव संपृक्तौ वाण्यर्थप्रतिपत्तये । जगतो मातरौ ( ? ) वन्दे शर्वाणीशशिशेखरौ ॥ ' अर्थशून्यपदाभ्यासो यथा काव्यानुशासनम् 'आनन्दसन्दोहपदारविन्द कुन्देन्दुकुन्दोदितबिन्दुवृन्दम् ।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92