________________
प्रथमोऽध्यायः
'तं चेद्वायौ वहति सरलस्कन्धसंघट्टजन्मा बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः । अर्हस्येनं शमयितुमलं वारिधारासहस्त्र रापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥' आदिशब्दात्पादत्रयोपजीवनमपि युज्यते, परं तत्प्रकटचौर्यमिति
नोपदिष्टम् ।
उक्त्युपजीवनं यथा
'कैवर्तकर्कशकरग्रहणच्युतोऽपि जाले पुनर्निपतितः शफरो वराकः । जालात्पुनर्निगलितो गलितो बकेन
वामे विधौ बत कुतो व्यसनान्निवृत्तिः ॥'
यथा च
'छित्त्वा पाशमपास्य कूटरचनां भङ्क्त्वा बलाद्वागुरां प्रान्तेषु ज्वलदग्निजालजटिलान्निर्गत्य दूरं वनात् । व्याधानां शरगोचरादतिजवेनोत्प्लुत्य यावन्मृगः कूपान्तः पतितः करोतु विगुणे किंवा विधौ पौरुषम् ॥' समस्यापूरणं त्वनेकधा भवति ।
पादसमस्या यथा
'समुद्राद्धूलिरुत्थिता' इति चतुर्थः पादः ।
अत्र क्रमशस्त्रयः पादाः यथा
'अगस्तिहस्तविन्यस्तनिपीतसकलाम्भसः । अधः फणीन्द्रफूत्कारैः समुद्राद्धूलिरुत्थिता ॥ '
पादद्वयसमस्या यथा
२९
३०
'स्तनावालोक्य तन्वङ्ग्याः शिरः कम्पयते युवा ।'
इति पूर्वार्धम् ।
' तयोरन्तर्विनिर्मग्नां दृष्टिमुत्पाटयन्निव ॥' इत्युत्तरार्धम् ।
पादत्रयसमस्या यथा
'गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसन्धेः सद्यः कृत्तद्विरददशनच्छेदगौरस्य तस्य । कैलासस्यादिमजिनपतिं प्रार्थयेऽस्त्रं विमुक्त्यै याचा मोघा वरमधिगुणे नाधमे लब्धकामा ॥' इति मेघदूतकाव्यस्य पादत्रयं तृतीयपादेन सङ्कलितम् ।
यथा च
'छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैः प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । योऽयं नेमेः सदनमचलः प्रीतये यत्र ते स्या
च्छीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥' पादपरिवृत्तिर्यथा—
'वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ।'
तथा
'वाण्यर्थाविव संपृक्तौ वाण्यर्थप्रतिपत्तये । जगतो मातरौ ( ? ) वन्दे शर्वाणीशशिशेखरौ ॥ ' अर्थशून्यपदाभ्यासो यथा
काव्यानुशासनम्
'आनन्दसन्दोहपदारविन्द कुन्देन्दुकुन्दोदितबिन्दुवृन्दम् ।