________________
२७
काव्यानुशासनम् ___ यत्र काव्यस्य जीवितव्यैक्यं परिकरबन्धस्तु दूरादेवान्यः, तत्परपुरप्रवेशतुल्यम् ॥५४॥
यथा
प्रथमोऽध्यायः कर्माण्यष्टौ समन्तात् त्रिभुवनभवनोत्सङ्गितानां जनानां यश्छेत्तुं तुल्यकालं वहति निजतनुं क्लृप्तसप्तान्यरूपाम् ॥' अत्रार्थ'पार्श्वप्रभुः फणिफणामणिसप्तकान्तः संक्रान्तकान्तवपुरस्तु स वः शिवाय । कर्माष्टकं सपदि हन्तुमिवानतानां यः क्लृप्तसप्तविततान्यवपुर्बिभर्ति ॥' कियतापि भेदेनैतस्माद्यद्भिन्नमिव प्रतिभासते तदालेख्यप्रख्यम् ॥५२॥
यथा'जयति फणीन्द्रफणामणिसंक्रान्तवपुर्जिनः पार्श्वः । सर्वमनेकान्तमिदं वस्त्विह कथयन्निवेति भव्यानाम् ॥'
यत्र विषयभेदेऽपि नितान्तसादृश्यादभेदप्रतीतिस्तत्तुल्यदेहितुल्यम् ॥५३॥
यथा'प्रतिदिशमिह दोलान्दोलनव्यापृतानां कुवलयनयनानामाननैरुल्लसद्भिः । विमललवणिमाम्भश्चन्द्रिकां द्राक्किरद्धि नवशशधरमालामालिनीवाभवद् द्यौः ॥' अत्रार्थे'जिनभवनशिखाग्रन्यस्तपर्यस्तदोषस्फुरितरुचिरकुम्भोद्दामदीप्तिप्रतानैः । प्रतिसमयमिहश्रीराहडेनाधिकं द्यौ स्तरुणतरणिमालामालिनीव व्यधायि ॥'
'अलङ्कारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः । अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी ॥' यथा च'प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यत: करसहस्रमपि ॥' पदोपजीवनं यथा'दूराकृष्टशिलीमुखव्यतिकरान्नो किं किरातानिमा नाराव्यावृतपीतलोहितमुखान् किं वा पलाशानपि । पान्थाः केसरिणं न पश्यत पुरोऽप्येनं वसन्तं वने मूढा रक्षत जीवितानि शरणं यात प्रियां देवताम् ॥' यथा च'मा गाः पान्थ प्रियां मुक्त्वा दूराकृष्टशिलीमुखम् । स्थितं पन्थानमावृत्य किं किरातं न पश्यसि ॥' पादोपजीवनं यथा'जातो मार्गे सुरभिकुसुमः सत्फलो नम्रशाख: स्फीताभोगो बहुलविटपः स्वादुतोयोपगूढः । नैवात्मार्थं वहति महती पादपेन्द्रः श्रियं ता मापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥' यथा च