________________
प्रथमोऽध्यायः
'स एष भुवनत्रयप्रथितसंयमः शंकरो बिभर्ति वपुषाऽधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयञ्जयति जातहासः स्मरः ॥' 'अमूर्तत्वस्य यथा'तव सौरूप्यमालोक्य जगज्जनविलक्षणम् । लज्जयेव जगत् स्वामिन्ननङ्गोऽनङ्गतां गतः ॥' चक्षुरादेरेकानेकवर्णत्वस्य चैक्यम् ॥४९॥ तत्र शुक्लता यथा"जं मुक्त्वा सवणंतरेण तरला तिक्खा कडक्खच्छडा शिंगाथिट्ठिअकेअअग्गिमदलद्दोणीसरिच्छच्छई । तं कप्पूररसेण णं धवलिदो जोण्हाअ णं पहाविदो मुत्ताणं धणरेणुणव्व छुरिदो जादो ह्मि एत्थंतरे ॥' श्यामलता यथा'तत्प्रार्थितं जवनवाजिगतेन राज्ञा तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति । श्यामीचकार वनमाकुलदृष्टिपातै
तेरितोत्पलदलप्रकरैरिवाम्भः ।' कृष्णता यथा
काव्यानुशासनम् 'पादन्यासक्वणितरसनास्तत्र लीलावधूत रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ता । वश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दू नामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् ।' रक्तता यथा'वक्त्रं चन्द्रो नयनयुगलीपाटलाम्भोजयुग्मं नासानालं दशनवसनं फुल्लबन्धूकपुष्पम् । कण्ठः कम्बुः कुचयुगमथो हेमकुम्भौ नितम्बौ गङ्गारोधश्चरणयुगलं वारिजद्वन्द्वमस्याः ॥' अनेकवर्णता यथा'तामुत्तीर्य व्रजपरिचितभूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णसारप्रभाणाम् । कुन्दक्षेपानुगमधुकरश्रीमुखामात्मबिम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥'
क्वचित्प्रतिबिम्बतया क्वचिदालेख्यप्रख्यतया क्वचित्तुल्यदेहितुल्यतया क्वचित्परपुरप्रवेशप्रतिमतया उत्तरोत्तरोत्कर्षेण महाकविकाव्यानां छायोपजीवनं पादद्वयत्रयोपजीवनम् उक्त्युपजीवनं समस्यापूरणपदपरिवृत्तिरर्थशून्याभासादयश्च शिक्षा ॥५०॥
तत्र यत्रार्थः स एव, वाक्यान्तरविरचना त्वन्या । तत्प्रतिबिम्बतुल्यम् ॥५१॥
१. 'पौष्प्याः पञ्च शराः शरासनमपि ज्याशून्यमिक्षोलता, जेतव्यं जगतां त्रयं स च पुनर्जेताप्यनङ्गः किल । इत्याश्चर्यपरम्पराघटनया चेतश्चमत्कारयन् , व्यापारः सुतरां विचारपदवीवन्ध्यो विधिर्वन्द्यताम् ॥' इत्यपि प्रत्यन्तरे ।
२. कर्पूरमञ्जयाँ प्रथमजवनिकायां श्लोकोऽयं वर्तते. 'यन्मुक्त्वा श्रवणान्तरेण तरला तीक्ष्णा कटाक्षच्छटा शृङ्गाधिष्ठितकेतकाग्निमदलद्रोणीसदृक्षच्छविः । तत्कर्पूररसेन ननु धवलितो ज्योत्स्नया ननु स्नापितो मुक्तानां धनरेणुनेव छुरितो जातोऽस्म्यत्रान्तरे ॥' इति च्छाया ।
यथा
'तेजः पुष्णातु पावो दुरितविजयिनः शाश्वतानन्दबीज संक्रान्तः सप्तरल्यां भुजगपतिफणाचक्रपर्यङ्कभाजि ।