Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 16
________________ प्रथमोऽध्यायः काव्यानुशासनम् यथा वा'किं कारणं तु कविराज मृगा यदेते व्योमोत्पतन्ति विलिखन्ति भुवं वराहाः । एके मृगाङ्कमृगमादिवराहमन्ये देव त्वदस्त्रचकिताः श्रयितुं स्वजातिम् ॥' कामकेतने मकरमत्स्ययोः ॥४३॥ यथा'बाणाहवव्याहतशंभुशक्तेरासत्तिमासाद्य जनार्दनस्य । शरीरिणा जैत्रशरेण यत्र निःशङ्कमूषे मकरध्वजेन ॥' यथा वा'स्त्रीमुद्रां झषकेतनस्य महती सर्वार्थसंपत्करी ये मूढाः प्रविहाय यान्ति कुधियो मिथ्या फलान्वेषिणः । ते तेनैव निहत्य निर्दयतरं मुण्डीकृता लुञ्चिताः केचित्पञ्चशिखीकृताश्च जटिन: कापालिकाश्चापरे ॥' समुद्रात्रिनेत्रसमुत्पन्नयोश्चन्द्रयोः ॥४४॥ यथा'उत्पत्तिर्जलधौ तुषारशिशिरा कान्तिः क्लमच्छेदिनी वासो जह्वसुताङ्गसङ्गशुचिनि स्थाणोर्जटाजूटके । एतस्मिँस्त्रितये तथापि न गतः सम्पूर्णतां चन्द्रमाः पुंसां सत्यमिदं न जन्म न गुणा नोपाश्रयः संपदे ॥ यथा च'अत्रिजातस्य या मूर्तिः शशिनः सज्जनस्य च । क्व सावैरात्रिजातस्य तमसो दुर्जनस्य च ॥' द्वादशानामप्यादित्यानाम् ॥४५॥ यथा'साद्रिचूर्वीनदीशा दिशति दश दिशो दर्शयन् प्राग्दृशोर्यः सादृश्यं दृश्यते नो स दशशतदृशि त्रैदशेयस्य देशो (?) । दीप्तांशुर्वः स दिश्यादशिवयुगदशादर्शितद्वादशात्मा संशास्त्यश्वाँश्च यस्याशयविदतिशयाईदसूकाशनाद्याः ॥' क्षीरक्षारसमुद्रयोः ॥४३॥ यथा'ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी मुक्तौघाः सिकता: प्रवाललतिकाः शैवालमम्भः सुधा । तीरे तल्पमहीरुहः किमपरं नाम्नैव रत्नाकरो दूरे कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति ॥' दैत्यदानवासुराणाम् ॥४७॥ तत्र हिरण्याक्षहिरण्यकशिपुप्रह्लादविरोचनबलिबाणादयो दैत्याः । विप्रचितिसंवरनमुचिपुलोमप्रभृतयो दानवाः । बलवृत्रचिक्षुर(स्त)वृषपर्वादयोऽसुराः । तेषामैक्यम् । यथा 'करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्तव स्तवम् । हरे हिरण्याक्षपुरःसरासुरद्विपद्विषः प्रत्युत सा तिरस्क्रिया ॥' यथा च'तं संबरासुरशरासनशल्यसार केयूररत्नकिरणारुणबाहुदण्डम् । पीनांसलग्नदयिताकुचपत्रभङ्गं मीनध्वजं जितजगत्रितयं जयेत् कः ॥' कामस्य मूर्तत्वामूर्तत्वयोः ॥४८॥ तत्र मूर्तत्वस्य यथा

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92