Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
काव्यानुशासनम्
प्रथमोऽध्यायः
दिगन्तरप्रथितरथाश्वसञ्चरः प्रभाकरो भवति नरेश्वरः स्फुटम् ॥' क्रोधानुरागयो रक्तत्वस्य ॥२४॥ यथा'शितितारकानुमितिताम्रनयनमरुणीकृतं क्रुधा । बाणवदनमुददीपि भिये जगतः सकीलमिव सूर्यमण्डलम् ॥' यथा'गायन्निवालिविरुतैर्नृत्यन्निव चलैदलैः । त्वद्गुणैरिव रक्तोऽसौ मोदतेऽशोकपादपः ॥' चक्रवाकानां निशि भिन्नतटाश्रयणस्य ॥२५॥ यथा'इह हि कुमुदकोशे पीतमम्भः सुशीतं कवलितमिह नालं कन्दलं चेह दृष्टम् । इति स्टति निशायां पर्यटन्ती तटान्ते सहचरपरिमुक्ता चक्रवाकी वराकी ॥' केषाञ्चिन्नैयत्यम् ॥२६॥
यथा'यस्योत्तमां मौक्तिककामधेनुरुपत्यकामञ्चति ताम्रपर्णी । रत्नेश्वरो रत्नमहानिधानं कुम्भोद्भवस्तं मलयं पुनाति ॥' मलयगिरावेव चन्दनोत्पत्तिः ॥२९॥ यथा'ये देशा मलयोपकण्ठनिलयास्तेष्विन्धनं चन्दनं तीरोपान्तनिवासिनां जलनिधे रत्नार्जने नोद्यमः । काश्मीरप्रतिवासिनां भुवि नृणां नात्यादर: कुङ्कमे दूरस्थस्य महार्घता परिभवः संवासतो जायते ॥' हिमगिरावेव भूर्जजन्म ॥३०॥ यथा'तत्सैनिकाः समासाद्य भूर्जश्रस्तरितां भुवम् । तुषाराद्रिविटङ्केषु मुमुचुदिग्जयश्रमम् ॥' वसन्त एव कोकिलरुतम् ॥३१॥ यथा''माणं मुञ्चध देह वल्लहजणे दिढेि तरङ्गत्तरं तारुण्णं दिअहाणि पञ्च दह वा पीणत्थणथम्भणं । इत्थं कोइलमञ्जुसिञ्जणमिसा देवस्स पञ्चेसुणो दिण्णा चित्तमहूसवेण सहसा (भुवणे) आण्णव्व सव्वंकसा॥' वर्षास्वेव मयूरस्य नृत्यं रुतं च ॥३२॥ यथा
यथा
समुद्रेष्वेव मकराः ॥२७॥ यथा'रत्नानां निधिरित्यपां निलय इत्यत्युष्णतृष्णाज्वर रस्माभिः श्रित एष केलिसदनं लक्ष्मीप्रियस्येति च । को जानाति यदस्य यास्यति करक्रोडान्तरस्थं पय स्ताम्यन्मीनमधीरलोलमकरं वातापितापी मुनिः ॥' ताम्रपामेव मौक्तिकानि ॥२८॥
१. कर्पूरमजयाँ प्रथमजवनिकान्तरे श्लोकोऽयम्, 'मानं मुञ्चत ददत वल्लभजने दृष्टि तुरङ्गोत्तरां तारुण्यं दिवसानि पञ्च दश वा पीनस्तनस्तम्भनम् । इत्थं कोकिलम शिञ्जनवशाद्देवस्य पछेषोर्दत्ता चित्तमहोत्सवेन सहसा (भुवने) आजैव सर्वंकषा ॥ ' इति छाया.

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92